स्कन्ध 7, अध्याय 3: च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ७.३ तृतीयोऽध्यायः ।
च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।
व्यास उवाच - इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा ।
पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च ॥ १॥