स्कन्ध 7, अध्याय 2: शर्यातिराजवर्णनम्, Verse 1
७.२ द्वितीयोऽध्यायः ।
शर्यातिराजवर्णनम् ।
ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् ।
सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ १॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.२ द्वितीयोऽध्यायः ।
शर्यातिराजवर्णनम् ।
ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् ।
सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ १॥
शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् ।
यथा श्रुतं मया पूर्वं नारदादृषिसत्तमात् ॥ २॥
एकदा नारदः श्रीमान्सरस्वत्यास्तटे शुभे ।
आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥ ३॥
प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा ।
ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ॥ ४॥
विधिवत्पूजयित्वा तमुक्तवान्वचनं त्विदम् ।
पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥ ५॥
कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् ।
राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले ॥ ६॥
तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् ।
श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम् ॥ ७॥
समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् ।
इति पृष्टो मया राजन्नारदः परमार्थवित् ॥ ८॥
उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् ।
नारद उवाच - शृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥ ९॥
पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् ।
ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः ॥ १०॥
विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः ।
सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान् ॥ ११॥
तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा ।
सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ १२॥
पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् ।
मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि ॥ १३॥
तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः ।
त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल ॥ १४॥
देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः ।
पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी ॥ १५॥
देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु ।
तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥ १६॥
तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः ।
नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥ १७॥
तेषां नामानि राजेन्द्र शृणुष्वैकमनाः पुनः ।
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥ १८॥
नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः ।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ १९॥
इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत ।
तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् ॥ २०॥
नवानां वंशविस्तारं सङ्क्षेपेण निशामय ।
शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम् ॥ २१॥
नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् ।
धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः ॥ २२॥
धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत ।
सङ्ग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥ २३॥
शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः ।
सुकन्या च तथा पुत्री रूपलावण्यसंयुता ॥ २४॥
च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी ।
मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह ॥ २५॥
विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् ।
जनमेजय उवाच ।
सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया ॥ २६॥
यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना ।
कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥ २७॥
पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति ।
ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः ॥ २८॥
कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा ।
सूत उवाच - इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै ॥ २९॥
द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव ।
व्यास उवाच - वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः ॥ ३०॥