स्कन्ध 7, अध्याय 1: दक्षप्रजापतिवर्णनम्, Verse 1
७ श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः ७.१ प्रथमोऽध्यायः ।
दक्षप्रजापतिवर्णनम् ।
सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः ।
व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ १॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
७ श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः ७.१ प्रथमोऽध्यायः ।
दक्षप्रजापतिवर्णनम् ।
सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः ।
व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ १॥
जनमेजय उवाच - स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् ।
तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा ॥ २॥
कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् ।
चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ॥ ३॥
ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् ।
देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक् ॥ ४॥
इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः ।
तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः ॥ ५॥
व्यास उवाच - निशामय महाराज विस्तराद्गदतो मम ।
सोमसूर्यान्वयानां च तथान्येषां समुद्भवम् ॥ ६॥
विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः ।
तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥ ७॥
तया दत्तवरो धाता जगत्कर्तुं समुद्यतः ।
नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः ॥ ८॥
विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः ।
न विस्तारं जगामाशु रचितापि महात्मना ॥ ९॥
(ससर्ज मानसान्पुत्रान्सप्तसङ्ख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः ।
पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः ॥ १०॥
रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् ।
दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः ॥ ११॥
वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी ।
वीरिणी नाम विख्याता पुराणेषु महीपते ॥ १२॥
असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः ।
देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः ॥ १३॥
जनमेजय उवाच - अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः ।
वीरिण्यां नारदो जातो दक्षादिति महातपाः ॥ १४॥
कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः ।
जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥ १५॥
विचित्रमिदमाख्यातं भवता नारदस्य च ।
दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम् ॥ १६॥
पूर्वदेहः कथं मुक्तः शापात्कस्य महामना ।
नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥ १७॥
व्यास उवाच - ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः ।
प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा ॥ १८॥
ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् ।
दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान् ॥ १९॥
दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः ।
उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥ २०॥
भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् ।
लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥ २१॥
पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः ।
कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः ॥ २२॥
बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् ।
समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति ॥ २३॥
व्यास उवाच - नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः ।
अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल ॥ २४॥
ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः ।
इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥ २५॥
तलं सर्वं परिज्ञातुं वचनान्नारदस्य च ।
प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे ॥ २६॥
प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः ।
दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम् ॥ २७॥
अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः ।
तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः ॥ २८॥
नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः ।
बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥ २९॥
प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना ।
श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ ३०॥