स्कन्ध 6, अध्याय 30: मायाप्राबल्यवर्णनम्, Verse 1
६.३० त्रिंशोऽध्यायः ।
मायाप्राबल्यवर्णनम् ।
नारद उवाच ।
मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः ।
क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥ १॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.३० त्रिंशोऽध्यायः ।
मायाप्राबल्यवर्णनम् ।
नारद उवाच ।
मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः ।
क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥ १॥
विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः ।
क्व गता मां परित्यज्य विलपन्तं वियोगिनम् ॥ २॥
विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् ।
राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते ॥ ३॥
न प्राणा मे बहिर्यान्ति विरहेण तवाधुना ।
गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात् ॥ ४॥
विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् ।
क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे ॥ ५॥
निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः ।
गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः ॥ ६॥
धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता ।
अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि ॥ ७॥
न युक्तमधुना यन्मां विहाय त्रिदिवं गता ।
विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता ॥ ८॥
उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा ।
तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये ॥ ९॥
किं करोमि क्व गच्छामि रामो नास्ति महीतले ।
रामाविरहजं दुःखं जानाति रघुनन्दनः ॥ १०॥
विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि ।
दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः ॥ ११॥
उपकारस्तु नारीणां मुनिभिर्विहितः किल ।
यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह ॥ १२॥
एवं विलपमानं तं राजानं भगवान्हरिः ।
निवारयामास तदा वचनैर्युक्तियोजितैः ॥ १३॥
श्रीभगवानुवाच ।
किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना ।
न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः ॥ १४॥
का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव ।
प्रवाहरूपे संसारे नृणां नौतरतामिव ॥ १५॥
गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् ।
संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम् ॥ १६॥
अनया सह ते राजन् संयोगस्त्विह संवृतः ।
भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा ॥ १७॥
न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे ।
काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम् ॥ १८॥
मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः ।
कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा ॥ १९॥
यथागता गता सा तु तथैव वरवर्णिनी ।
यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो ॥ २०॥
रुदितेन तवाद्यैव नागमिष्यति कामिनी ।
वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना ॥ २१॥
भोगः कालवशादेति तथैव प्रतियाति च ।
नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि ॥ २२॥
नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः ।
घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः ॥ २३॥
मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् ।
अथवा न्यस्य दायादे वनं सेवय साम्प्रतम् ॥ २४॥
दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः ।
तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम् ॥ २५॥
जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते ।
ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु ॥ २६॥
तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् ।
मायेयं भगवत्यास्तु यया सम्मोहितं जगत् ॥ २७॥
नारद उवाच ।
इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् ।
कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम् ॥ २८॥
दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् ।
वनं जगाम भूपालस्तत्त्वज्ञानमवाप च ॥ २९॥
गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् ।
तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः ॥ ३०॥