स्कन्ध 6, अध्याय 29: नारदस्य पुनः स्वरूपप्राप्तिवर्णनम्, Verse 1
६.२९ एकोनत्रिंशोऽध्यायः ।
नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।
नारद उवाच ।
इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च ।
विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ १॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.२९ एकोनत्रिंशोऽध्यायः ।
नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।
नारद उवाच ।
इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च ।
विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ १॥
राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् ।
पितरौ क्व च मे केन स्थापिता च सरोवरे ॥ २॥
किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् ।
निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम् ॥ ३॥
दैवमेव परं राजन्नास्त्यत्र पौरुषं मम ।
धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु ॥ ४॥
तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः ।
न पिता न च माता च न स्थानं न च बान्धवाः ॥ ५॥
इत्युक्तोऽसौ मया राजा बभूव मदनातुरः ।
मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह ॥ ६॥
नरयानमानयध्वं चतुर्वाह्यं मनोहरम् ।
आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम् ॥ ७॥
मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् ।
चतुरस्रं विशालं च सुवर्णरचितं शुभम् ॥ ८॥
तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः ।
आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम् ॥ ९॥
आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया ।
मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः ॥ १०॥
विवाहविधिना राजा शुभे लग्ने शुभे दिने ।
उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः ॥ ११॥
तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी ।
सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम ॥ १२॥
रममाणो मया सार्धं सुखमाप महीपतिः ।
नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा ॥ १३॥
राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् ।
नासौ विवेद गच्छन्तं कालं कामकलारतः ॥ १४॥
उद्यानेषु च रम्येषु वापीषु च गृहेषु च ।
हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च ॥ १५॥
वारुणीमदमत्तोऽसौ विहरन्कानने शुभे ।
विसृज्य सर्वकार्याणि मदधीनो बभूव ह ॥ १६॥
व्यासाहं तेन संसक्ता क्रीडारसवशीकृता ।
स्मृतवान्पूर्वदेहं न पुम्भावं मुनिजन्म च ॥ १७॥
ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती ।
पट्टराज्ञी विलासज्ञा सफलं जीवितं मम ॥ १८॥
इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् ।
क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी ॥ १९॥
विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् ।
धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता ॥ २०॥
एवं विहरतस्तत्र वर्षाणि द्वादशैव तु ।
गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने ॥ २१॥
जाता गर्भवती चाहं मुदं प्राप नृपस्तदा ।
कारयामास विधिवद्गर्भसंस्कारकर्म च ॥ २२॥
अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः ।
नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम् ॥ २३॥
सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम ।
शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते ॥ २४॥
बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः ।
राजा परमसन्तुष्टो बभूव सुतजन्मतः ॥ २५॥
सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह ।
अहं भूमिपतेश्चासं प्रिया भार्या परन्तप ॥ २६॥
ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः ।
द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः ॥ २७॥
सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा ।
वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम् ॥ २८॥
एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः ।
मोहितोऽहं तदा तेषां प्रीत्या पालनलालने ॥ २९॥
पुनरष्ट सुताः काले काले जाताः स्वरूपिणः ।
गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम् ॥ ३०॥