स्कन्ध 6, अध्याय 28: नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम्, Verse 1
६.२८ अष्टाविंशोऽध्यायः ।
नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।
नारद उवाच ।
निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् ।
मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ १॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.२८ अष्टाविंशोऽध्यायः ।
नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।
नारद उवाच ।
निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् ।
मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ १॥
मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् ।
ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया ॥ २॥
कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे ।
गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः ॥ ३॥
वादयन्महतीं वीणां स्वरतानविभूषिताम् ।
गायत्रं गायमानस्तु साम सप्तस्वरान्वितम् ॥ ४॥
दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः ।
कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः ॥ ५॥
पीताम्बरपरीधानो मुकुटाङ्गदराजितः ।
लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ॥ ६॥
वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् ।
सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता ॥ ७॥
नारीणां प्रवरा कान्ता रूपयौवनगर्विता ।
सुप्रिया वासुदेवस्य वरचामीकरप्रभा ॥ ८॥
अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् ।
मया पृष्टो देवदेवो वनमाली जगत्प्रभुः ॥ ९॥
भगवन्देवदेवेश पद्मनाभ सुरारिहन् ।
कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात् ॥ १०॥
नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो ।
जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ॥ ११॥
नारद उवाच ।
निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः ।
उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम् ॥ १२॥
विष्णुरुवाच ।
नारदैवंविधा नीतिर्न स्थातव्यं कदाचन ।
पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित् ॥ १३॥
माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः ।
साङ्ख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः ॥ १४॥
देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना ।
जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥ १५॥
नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् ।
मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये ॥ १६॥
देवदेहं नृदेहं वा तिर्यग्देहमथापि वा ।
बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥ १७॥
त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् ।
वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः ॥ १८॥
कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् ।
तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥ १९॥
कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः ।
स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम् ॥ २०॥
नारद उवाच ।
इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः ।
तमब्रवं जगन्नाथं वासुदेवं सनातनम् ॥ २१॥
रमापते कथंरूपा माया सा कीदृशी पुनः ।
कियद्बला क्व संस्थाना कस्याधारा वदस्व मे ॥ २२॥
द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर ।
ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥ २३॥
विष्णुरुवाच ।
त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता ।
अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥ २४॥
दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु ।
गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम् ॥ २५॥
दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः ।
दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः ॥ २६॥
इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् ।
स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥ २७॥
आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः ।
समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥ २८॥
चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् ।
प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥ २९॥
महावनानि दिव्यानि सरांसि सरितस्तथा ।
पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥ ३०॥