स्कन्ध 6, अध्याय 27: नारदस्य मायादमयन्त्या सह विवाहवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ६.२७ सप्तविंशोऽध्यायः ।
नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।
नारद उवाच ।
तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः ।
भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥ १॥