स्कन्ध 6, अध्याय 26: दमयन्तीविवाहप्रस्ताववर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ६.२६ षड्विंशोऽध्यायः ।
दमयन्तीविवाहप्रस्ताववर्णनम् ।
व्यास उवाच ।
इति मे वचनं श्रुत्वा नारदः परमार्थवित् ।
मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥ १॥