स्कन्ध 6, अध्याय 25: व्यासस्वकीयमोहवर्णनम्, Verse 1
६.२५ पञ्चविंशोऽध्यायः ।
व्यासस्वकीयमोहवर्णनम् ।
व्यास उवाच ।
वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् ।
दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ॥ १॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.२५ पञ्चविंशोऽध्यायः ।
व्यासस्वकीयमोहवर्णनम् ।
व्यास उवाच ।
वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् ।
दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ॥ १॥
अम्बालिका वधूर्धन्या काशिराजसुता सुत ।
भार्या विचित्रवीर्यस्य विधवा शोकसंयुता ॥ २॥
सर्वलक्षणसम्पन्ना रूपयौवनशालिनी ।
तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम् ॥ ३॥
नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् ।
उत्पादय राजपुत्र्यां वचनान्मम मानद ॥ ४॥
इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये ।
यावदृतुमती जाता काशिराजसुता मुने ॥ ५॥
एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ ।
लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा ॥ ६॥
दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् ।
सा स्वेदवदना जाता पाण्डुरा विमना भृशम् ॥ ७॥
कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् ।
वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा ॥ ८॥
दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता ।
अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे ॥ ९॥
इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः ।
भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम् ॥ १०॥
ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ ।
धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः ॥ ११॥
माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ ।
ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत् ॥ १२॥
द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ ।
अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम् ॥ १३॥
तथेति सा मया प्रोक्ता मुदिता जननी तदा ।
अम्बिकां प्रार्थयामास सुतार्थे काल आगते ॥ १४॥
पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् ।
कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने ॥ १५॥
वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा ।
गतोऽहं शयनागारे मातुस्तद्वचनान्निशि ॥ १६॥
दासी विचित्रवीर्यस्य रूपयौवनसंयुता ।
प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा ॥ १७॥
चन्दनारक्तदेहा सा पुष्पमालाविभूषिता ।
आयाता हावसंयुक्ता सुकेशी हंसगामिनी ॥ १८॥
पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता ।
प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने ॥ १९॥
रात्रौ सङ्क्रीडितं प्रेम्णा तया सह मया भृशम् ।
वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद ॥ २०॥
सुभगे भविता पुत्रः सर्वलक्षणसंयुतः ।
सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः ॥ २१॥
स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् ।
माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम ॥ २२॥
विस्मृतः शुकसम्बन्धी विरहः शोककारणम् ।
दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान् ॥ २३॥
माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः ।
अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी ॥ २४॥
मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् ।
न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम ॥ २५॥
दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे ।
पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः ॥ २६॥
कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै ।
केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे ॥ २७॥
व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल ।
माया बलवती मोहं वितनोति हि मानसे ॥ २८॥
जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने ।
इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः ॥ २९॥
राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः ।
तदा मम मनो जातं प्रसन्नं सुतकारणात् ॥ ३०॥