Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ६.२४ चतुर्विंशोऽध्यायः ।

अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।

राजोवाच ।

भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् ।

न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 2

विचित्रमिदमाख्यानं कथितं भवता मम ।

हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा ॥ २॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 3

परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः ।

देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 4

सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः ।

परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 5

एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् ।

सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 6

व्यास उवाच ।

श‍ृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् ।

यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 7

ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः ।

सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 8

स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् ।

वादयन्महतीं वीणां स्वरतानसमन्विताम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 9

बृहद्रथन्तरादीनां साम्नां भेदाननेकशः ।

गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 10

शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् ।

निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 11

तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् ।

अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 12

अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च ।

उपविष्टः समीपेऽहं मुनेरमिततेजसः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 13

दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् ।

तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 14

असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने ।

न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 15

द्वीपे जातो जनन्याहं सन्त्यक्तस्तत्क्षणादपि ।

अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 16

तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् ।

पुत्रकामेन देवर्षे शङ्करः समुपासितः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 17

ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः ।

पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 18

स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् ।

लोकाल्लोकान्तरं साधो वचनात्तव बोधितः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 19

ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् ।

मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 20

पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः ।

जानन्मिथ्येति संसारं मायापाशनियन्त्रितः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 21

ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् ।

स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 22

शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता ।

पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 23

चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता ।

कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 24

ततः सत्यवती माता निमग्ना शोकसागरे ।

चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 25

सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् ।

आश्वासिता मयात्यर्थं भीष्मेण च महात्मना ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 26

विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः ।

कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 27

काशिराजसुते रम्ये विजित्य पृथिवीपतीन् ।

भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 28

सत्यवत्यै शुभे काले विवाहः परिकल्पितः ।

भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 29

पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् ।

अनपत्यो युवा धन्वी माता मे दुःखिताभवत् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 24: अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्, Verse 30

काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा ।

पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः ॥ ३०॥