स्कन्ध 6, अध्याय 23: एकवीरैकावल्योर्विवाहवर्णनम्, Verse 1
६.२३ त्रयोविंशोऽध्यायः ।
एकवीरैकावल्योर्विवाहवर्णनम् ।
व्यास उवाच ।
तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् ।
प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ १॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.२३ त्रयोविंशोऽध्यायः ।
एकवीरैकावल्योर्विवाहवर्णनम् ।
व्यास उवाच ।
तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् ।
प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ १॥
राजोवाच ।
रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः ।
हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः ॥ २॥
मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल ।
किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥ ३॥
प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया ।
तेन मे विह्वलं जातं कामबाणहतं मनः ॥ ४॥
ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः ।
यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥ ५॥
एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः ।
हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥ ६॥
तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः ।
त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम् ॥ ७॥
स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः ।
गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने ॥ ८॥
वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा ।
प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ॥ ९॥
हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् ।
विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥ १०॥
विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् ।
पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ ११॥
पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः ।
एवं ते मनसः कामो मम चापि प्रियंवदे ॥ १२॥
भविष्यति स सम्पूर्णः साधनेन तवाधुना ।
दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥ १३॥
यथा हन्मि दुराचारं परदारापहारकम् ।
तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि ॥ १४॥
मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च ।
व्यास उवाच ।
तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती ॥ १५॥
तमुवाच रमापुत्रं गमनोपायमादरात् ।
मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम् ॥ १६॥
दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् ।
सज्जो भव महाभाग गमनाय मया सह ॥ १७॥
सैन्येन महता युक्तस्तत्र युद्धं भविष्यति ।
कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः ॥ १८॥
तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह ।
दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः ॥ १९॥
हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् ।
श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः ॥ २०॥
दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् ।
योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम् ॥ २१॥
तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा ।
तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥ २२॥
रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः ।
यशोवत्या च सैन्येन महता संयुतो नृपः ॥ २३॥
तमायान्तं समालोक्य दूतास्तस्य भयातुराः ।
क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः ॥ २४॥
तमूचुः सहसा मत्वा राक्षसं काममोहितम् ।
एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून् ॥ २५॥
दूता ऊचुः ।
राजन् यशोवती नारी कामिन्याः सहचारिणी ।
आयाति सह सैन्येन राजपुत्रेण संयुता ॥ २६॥
जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् ।
आगच्छति बलोन्मत्तो वाहिनीसहितः किल ॥ २७॥
संयत्तो भव राजेन्द्र सङ्ग्रामः समुपस्थितः ।
देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥ २८॥
इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः ।
सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै ॥ २९॥
व्यास उवाच ।
तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः ।
राक्षसान्प्रेरयामास सायुधान्सबलान्वहून् ॥ ३०॥