स्कन्ध 6, अध्याय 22: हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम्, Verse 1
६.२२ द्वाविंशोऽध्यायः ।
हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।
यशोवत्युवाच ।
प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता ।
चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः ॥ १॥