Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ६.२१ एकविंशोऽध्यायः ।

राजपुत्र्याः एकावल्याः वर्णनम् ।

व्यास उवाच ।

जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा ।

दिने दिने जगामाशु वृद्धिं बालः सुलालितः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 2

नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् ।

ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥ २॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 3

षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि ।

तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 4

चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः ।

गोभिश्च विविधैर्दानैर्याचकानितरानपि ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 5

वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै ।

कारयित्वा धनुर्वेदमध्यापयत पार्थिवः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 6

अधीतवेदं पुत्रं तं राजधर्मविशारदम् ।

दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 7

पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः ।

कारयामास सम्भारानभिषेकार्थमादरात् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 8

द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् ।

अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 9

जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः ।

स्वयं चकार विथिवदभिषेकं शुभे दिने ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 10

धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः ।

जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 11

एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ ।

भार्यया सह भूपालः प्रविवेश वनं वशी ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 12

मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् ।

नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 13

एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया ।

मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 14

इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः ।

चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 15

कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः ।

राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 16

एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् ।

बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 17

एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः ।

जगाम जाह्नवीतीरे हयारूढः प्रतापवान् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 18

सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् ।

पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 19

मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् ।

होमधूमावृताकाशान् मृगशावसमावृतान् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 20

केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् ।

प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 21

प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् ।

बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 22

शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् ।

स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 23

पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः ।

दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 24

कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् ।

बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 25

सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः ।

रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 26

साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव ।

संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 27

सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने ।

गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 28

कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे ।

पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 29

किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके ।

करोमि दुःखनाशं ते सर्वथैव कृशोदरि ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 21: राजपुत्र्याः एकावल्याः वर्णनम्, Verse 30

न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् ।

न भयं चौरजं कान्ते न राक्षसभयं तथा ॥ ३०॥