स्कन्ध 6, अध्याय 20: एकवीराख्यानवर्णनम्, Verse 1
६.२० विंशोऽध्यायः ।
एकवीराख्यानवर्णनम् ।
जनमेजय उवाच ।
संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।
मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ १॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.२० विंशोऽध्यायः ।
एकवीराख्यानवर्णनम् ।
जनमेजय उवाच ।
संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।
मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ १॥
का गतिस्तस्य बालस्य जाता सत्यवतीसुत ।
व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ २॥
व्यास उवाच ।
लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा ।
तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल ॥ ३॥
विमानवरमारूढः कामिन्या सहितो नृप ।
मदनालसया कामं क्रीडमानो यदृच्छया ॥ ४॥
विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् ।
देवपुत्रप्रतीकाशं रममाणं यथासुखम् ॥ ५॥
विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् ।
जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः ॥ ६॥
गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् ।
मदनालसायै तं बालं जातमात्रं मनोहरम् ॥ ७॥
सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया ।
मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम् ॥ ८॥
आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् ।
उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत ॥ ९॥
कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा ।
पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥ १०॥
कस्यायं बालकः कान्त त्यक्तः केन च कानने ।
पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना ॥ ११॥
चम्पक उवाच ।
प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै ।
देवो वा दानवो वापि गन्धर्वो वा शिशुः किल ॥ १२॥
तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् ।
अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम् ॥ १३॥
इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः ।
ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः ॥ १४॥
प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् ।
निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः ॥ १५॥
देवदेव मया लब्धस्तीर्थे परमपावने ।
कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः ॥ १६॥
कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते ।
आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम् ॥ १७॥
अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः ।
कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥ १८॥
इन्द्र उवाच ।
पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह ।
हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः ॥ १९॥
उत्पादितो भगवता कार्यार्थं किल बालकः ।
दातुं नृपतये नूनं ययातितनयाय च ॥ २०॥
हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः ।
आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे ॥ २१॥
तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् ।
यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः ॥ २२॥
गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर ।
अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति ॥ २३॥
तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् ।
एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले ॥ २४॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः ।
जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥ २५॥
मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् ।
आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम् ॥ २६॥
तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः ।
विमानवरमारूढो जगाम नृपतिं प्रति ॥ २७॥
दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् ।
जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च ॥ २८॥
उत्तिष्ठ वत्सेति हरिः पतन्त- माश्वासयद्भूमिगतं स्वभक्तम् ।
सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ ॥ २९॥
देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश ।
मन्दस्य मे ते किल दर्शनं य- त्सुदुर्लभं योगिजनैरलभ्यम् ॥ ३०॥