स्कन्ध 6, अध्याय 19: पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम्, Verse 1
६.१९ एकोनविंशोऽध्यायः ।
पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।
व्यास उवाच ।
तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ ।
रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम् ॥ १॥