स्कन्ध 6, अध्याय 18: शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम्, Verse 1
६.१८ अष्टादशोऽध्यायः ।
शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।
जनमेजय उवाच ।
इति शप्ता भगवता सिन्धुजा कोपयोगतः ।
कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ १॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.१८ अष्टादशोऽध्यायः ।
शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।
जनमेजय उवाच ।
इति शप्ता भगवता सिन्धुजा कोपयोगतः ।
कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ १॥
कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी ।
संस्थितैकाकिनी बाला परोषित्पतिका यथा ॥ २॥
कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा ।
संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः ॥ ३॥
समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा ।
पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥ ४॥
एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् ।
श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम् ॥ ५॥
सूत उवाच ।
इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै ।
कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥ ६॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ।
पावनीं सुखदां कर्णे विशदाक्षरसंयुताम् ॥ ७॥
रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् ।
भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम् ॥ ८॥
पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः ।
निवेदयामास कथां भास्कराय स शापजाम् ॥ ९॥
दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् ।
आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥ १०॥
सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् ।
तत्रैव सा ययावाशु वडवारूपधारिणी ॥ ११॥
कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे ।
सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते ॥ १२॥
तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् ।
दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम् ॥ १३॥
पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् ।
कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम् ॥ १४॥
व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् ।
कपालमालाकलितं नागयज्ञोपवीतिनम् ॥ १५॥
सागरस्य सुता कृत्वा हयीरूपं मनोहरम् ।
तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः ॥ १६॥
ध्यायमाना परं देवं वैराग्यं समुपाश्रिता ।
दिव्यं वर्षसहस्रं तु गतं तत्र महीपते ॥ १७॥
ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः ।
प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥ १८॥
तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् ।
तपस्यन्तीं महाभागामश्विनीरूपधारिणीम् ॥ १९॥
किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे ।
सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥ २०॥
हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् ।
वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥ २१॥
वेदोक्तं वचनं कार्यं नारीणां देवता पतिः ।
नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित् ॥ २२॥
पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः ।
यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ २३॥
नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि ।
तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे ॥ २४॥
लक्ष्मीरुवाच ।
आशुतोष महेशान शप्ताहं पतिना शिव ।
मां समुद्धर देवेश शापादस्माद्दयानिधे ॥ २५॥
तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् ।
विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥ २६॥
यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् ।
भविष्यति च वैकुण्ठवासस्ते कमलालये ॥ २७॥
इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने ।
आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥ २८॥
पतिसङ्गं विना पुत्रं देवदेव लभे कथम् ।
स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् ॥ २९॥
वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर ।
तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥ ३०॥