स्कन्ध 1, अध्याय 14: व्यासेन गृहस्थधर्मवर्णनम्, Verse 1
१.१४ चतुर्दशोऽध्यायः ।
व्यासेन गृहस्थधर्मवर्णनम् ।
सूत उवाच ।
दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् ।
किं करोमि न मे योग्या देवकन्येयमप्सराः ॥ १॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
१.१४ चतुर्दशोऽध्यायः ।
व्यासेन गृहस्थधर्मवर्णनम् ।
सूत उवाच ।
दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् ।
किं करोमि न मे योग्या देवकन्येयमप्सराः ॥ १॥
एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सराः ।
भयभीता हि सञ्जाता शापं मा विसृजेदयम् ॥ २॥
सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला ।
कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन् ॥ ३॥
कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः ।
मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः ॥ ४॥
स तु धैर्येण महता निगह्णन्मानसं मुनिः ।
न शशाक नियन्तुं च स व्यासः प्रसृतं मनः ॥ ५॥
बहुशो गृह्यमाणं च घृताच्या मोहितं मनः ।
भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥ ६॥
मन्धनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमथापतत् ॥ ७॥
सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च ।
तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ ८॥
विस्मयं जनयन्बालः सञ्जातस्तदरण्यजः ।
यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ ९॥
व्यासस्तु सुतमालोक्य विस्मयं परमं गतः ।
किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ १०॥
तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः ।
द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ ११॥
विलोकयामास तदा व्यासस्तु मुदितं सुतम् ।
दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ १२॥
गङ्गान्तः स्नापयामास समागत्य गिरेस्तदा ।
पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ॥ १३॥
जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ १४॥
जगुर्गन्धर्वपतयो मुदितास्ते दिदृक्षवः ।
विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ १५॥
तुष्टुवुर्मुदिताः सर्वे देवा विद्याधरास्तथा ।
दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ १६॥
अन्तरिक्षात्पपातोर्व्यां दण्डः कृष्णाजिनं शुभम् ।
कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ १७॥
सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् ।
तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ १८॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः ।
उपतस्थुर्महात्मानं यथास्य पितरं तथा ॥ १९॥
यतो दृष्टं शुकीरूपं घृताच्याः सम्भवे तदा ।
शुकेति नाम पुत्रस्य चकार मुनिसत्तमः ॥ २०॥
बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा ।
व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम् ॥ २१॥
सोऽधीत्य निखिलान्वेदान् सरहस्यान्ससङ्ग्रहान् ।
धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः ॥ २२॥
गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा ।
आजगाम पितुः पार्श्वं कृष्णद्वैपायनस्य च ॥ २३॥
दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः ।
आलिलिङ्ग मुहुर्घ्राणं मूर्ध्नि तस्य चकार ह ॥ २४॥
पप्रच्छ कुशलं व्यासस्तथा चाध्ययनं शुचि ।
आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे ॥ २५॥
दारकर्म ततो व्यासः शुकस्य पर्यचिन्तयत् ।
कन्यां मुनिसुतां कान्तामपृच्छदतिवेगवान् ॥ २६॥
शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयानघ ।
धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते ॥ २७॥
गार्हस्थ्यं च समासाद्य यज देवान्पितॄनथ ।
ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान् ॥ २८॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्पुत्र महाभाग कुरुष्वाद्य गृहाश्रमम् ॥ २९॥
कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक ।
आशा मे महती पुत्र पूरयस्व महामते ॥ ३०॥