स्कन्ध 6, अध्याय 17: हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम्, Verse 1
६.१७ सप्तदशोऽध्यायः ।
हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।
जनमेजय उवाच ।
कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् ।
मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥ १॥