स्कन्ध 6, अध्याय 15: देवीमहिम्नि नानाभाववर्णनम्, Verse 1
६.१५ पञ्चदशोऽध्यायः ।
देवीमहिम्नि नानाभाववर्णनम् ।
जनमेजय उवाच ।
देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल ।
निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ १॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.१५ पञ्चदशोऽध्यायः ।
देवीमहिम्नि नानाभाववर्णनम् ।
जनमेजय उवाच ।
देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल ।
निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ १॥
व्यास उवाच ।
वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप ।
निमिना न तथा प्राप्तो देहः शापादनन्तरम् ॥ २॥
यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन् ॥ ३॥
किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः ।
अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः ॥ ४॥
किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल ।
अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे ॥ ५॥
मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः ।
रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम् ॥ ६॥
गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः ।
मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥ ७॥
समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः ।
ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥ ८॥
विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् ।
प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥ ९॥
यज्ञेनानेन राजर्षे वरं जन्म विधीयते ।
देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम् ॥ १०॥
दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् ।
एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह ॥ ११॥
न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे ।
वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥ १२॥
नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् ।
एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ॥ १३॥
प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् ।
मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति ॥ १४॥
स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् ।
स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा ॥ १५॥
प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ ।
कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितं ।
१६ दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि ।
प्रसन्नायां देवतायां राजा वव्रे वरं नृप ॥ १७॥
ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि ।
नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥ १८॥
ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका ।
ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः ॥ १९॥
नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति ।
निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥ २०॥
तव वासात्सनिमिषा मानवाः पशवस्तथा ।
पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः ॥ २१॥
इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता ।
आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत् ॥ २२॥
अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः ।
विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन् ॥ २३॥
अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥ २४॥
अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा ।
सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः ॥ २५॥
अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः ।
येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥ २६॥
विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये ।
समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः ॥ २७॥
एवं निमिसुतो राजा प्रथितो जनकोऽभवत् ।
नगरी निर्मिता तेन गङ्गातीरे मनोहरा ॥ २८॥
मिथिलेति सुविख्याता गोपुराट्टालसंयुता ।
धनधान्यसमायुक्ता हट्टशालाविराजिता ॥ २९॥
वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा ।
विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥ ३०॥
एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् ।
शापाद्यस्य विदेहत्वं विस्तरादुदितं मया ॥ ३१॥