स्कन्ध 6, अध्याय 14: वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम्, Verse 1
६.१४ चतुर्दशोऽध्यायः ।
वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।
जनमेजय उवाच ।
मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् ।
वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ १॥
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.१४ चतुर्दशोऽध्यायः ।
वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।
जनमेजय उवाच ।
मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् ।
वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ १॥
किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा ।
ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम् ॥ २॥
व्यास उवाच ।
निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः ।
निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः ॥ ३॥
मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् ।
मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव ॥ ४॥
राजोवाच ।
कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः ।
चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः ॥ ५॥
अनागसं मुनिं राजा किमसौ शप्तवान्मुने ।
कारणं वद धर्मज्ञ तस्य शापस्य मूलतः ॥ ६॥
व्यास उवाच ।
कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् ।
संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल ॥ ७॥
धर्मं करोतु भूपालश्चरन्तु तापसास्तपः ।
सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह ॥ ८॥
कामक्रोधाभिभूताश्च राजानो मुनयस्तथा ।
लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः ॥ ९॥
यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः ।
ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः ॥ १०॥
ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः ।
दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात् ॥ ११॥
द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला ।
दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके ॥ १२॥
पराशक्तिप्रभावोऽयं नोल्लङ्घ्यः केनचित्क्वचित् ।
यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात् ॥ १३॥
महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः ।
पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः ॥ १४॥
तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये ।
तथापि भक्तवश्येयं भवत्येव सुनिश्चितम् ॥ १५॥
तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च ।
रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत् ॥ १६॥
इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः ।
रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः ॥ १७॥
सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः ।
द्वादशस्तनयो धीमान्प्रजापालनतत्परः ॥ १८॥
पुरं निवेशयामास गौतमाश्रमसन्निधौ ।
जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः ॥ १९॥
बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी ।
यज्ञेन बहुकालेन दक्षिणासंयुतेन च ॥ २०॥
इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः ।
कारयामास सम्भारं यथोद्दिष्टं महात्मभिः ॥ २१॥
भृगुमङ्गिरसं चैव वामदेवं च गौतमम् ।
वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम् ॥ २२॥
मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् ।
यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान् ॥ २३॥
राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः ।
वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः ॥ २४॥
यजेयं मुनिशार्दूल याजयस्व कृपानिधे ।
गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम् ॥ २५॥
यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् ।
पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे ॥ २६॥
यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका ।
तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम् ॥ २७॥
तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् ।
इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम ॥ २८॥
पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः ।
स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम् ॥ २९॥
तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव ।
इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः ॥ ३०॥