स्कन्ध 6, अध्याय 13: आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम्, Verse 1
६.१३ त्रयोदशोऽध्यायः ।
आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।
इन्द्र उवाच ।
साहसं कृतवान् राजा पूर्वं यत्कथितो मखः ।
वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ १॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.१३ त्रयोदशोऽध्यायः ।
आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।
इन्द्र उवाच ।
साहसं कृतवान् राजा पूर्वं यत्कथितो मखः ।
वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ १॥
गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः ।
पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥ २॥
इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा ।
स्थितस्तत्रैव मायेशीमायया मोहितो भृशम् ॥ ३॥
यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् ।
गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत् ॥ ४॥
हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके ।
स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥ ५॥
राजोवाच ।
भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः ।
त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥ ६॥
वसिष्ठ उवाच ।
शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः ।
त्रयोदशविधाः पुत्राः कथिता धर्मसङ्ग्रहे ॥ ७॥
तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् ।
द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ॥ ८॥
एवं कृते मखे भूप रोगनाशो भविष्यति ।
वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥ ९॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् ।
अन्वेषय महाबुद्धे विषयेष्वतियत्नतः ॥ १०॥
कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता ।
समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥ ११॥
सर्वथैव समानेयो यज्ञार्थे द्विजबालकः ।
न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥ १२॥
प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः ।
द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥ १३॥
इति सञ्चोदितस्तेन सचिवः कार्यहेतवे ।
अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥ १४॥
एवमन्वेषतस्तस्य विषये कश्चिदातुरः ।
निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥ १५॥
तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः ।
आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा ॥ १६॥
समानीय शुनःशेपं सचिवः कार्यतत्परः ।
राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥ १७॥
राजातिमुदितस्तेन विप्रानानीय सर्वतः ।
कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान् ॥ १८॥
प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः ।
बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा ॥ १९॥
राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् ।
प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति ॥ २०॥
क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि ।
दयावान्भव राजेन्द्र कुरु मे वचनं नृप ॥ २१॥
परदेहस्य रक्षायै स्वदेहं ये दयापराः ।
ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः ॥ २२॥
त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् ।
पापं मा कुरु राजेन्द्र दयावान् भव बालके ॥ २३॥
सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप ।
मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥ २४॥
व्यास क्त्वच अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् ।
न मुमोच मुनिस्तस्मै चूकोपातीव तापसः ॥ २५॥
उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः ।
मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥ २६॥
शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः ।
स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम् ॥ २७॥
स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः ।
तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ॥ २८॥
रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ ।
विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥ २९॥
न कृतं वचनं राज्ञा कौशिकस्य महात्मनः ।
रोषं दधार मनसा राजोपरि स गाधिजः ॥ ३०॥