Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 1

६.१२ द्वादशोऽध्यायः ।

हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।

राजोवाच ।

तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम ।

गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥ १॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 2

फलं च यादृशं यत्र तीर्थेषु स्नानदानतः ।

विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 3

व्यास उवाच ।

श‍ृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च ।

येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 4

नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती ।

नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 5

कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा ।

चर्मण्वती च सरयूस्तापी साभ्रमती तथा ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 6

एताश्च कथिता राजन्नन्याश्च शतशः पुनः ।

तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 7

समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः ।

मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 8

भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा ।

पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 9

प्रभासं च प्रयागं च नैमिषारण्यमेव च ।

विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 10

श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः ।

सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 11

तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् ।

आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 12

विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः ।

नरनारायणौ यत्र तेपाते तौ मुनी तपः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 13

वामनाश्रम आख्यातः शतयूपाश्रमस्तथा ।

येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 14

एवं पुण्यानि स्थानानि ह्यसङ्ख्यातानि भूतले ।

मुनिभिः परिगीतानि पावनानि महीपते ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 15

एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते ।

दर्शनात्पापहारीणि वसन्ति नियमेन च ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 16

कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् ।

तीर्थानि नृप दानानि व्रतानि च मखास्तथा ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 17

तपांसि पुण्यकर्माणि सापेक्षाणि महीपते ।

द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 18

पावनानि हि तीर्थानि तपांसि च व्रतानि च ।

कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 19

दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप ।

मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 20

कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् ।

कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 21

सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च ।

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 22

स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् ।

नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 23

व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते ।

क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 24

मानसं क्षालितुं तानि न समर्थानि वै नृप ।

शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 25

मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः ।

वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 26

रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा ।

चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 27

यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् ।

विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 28

न वेदा न च शास्त्राणि न व्रतानि तपांसि न ।

न मखा न च दानानि चित्तशुद्धेस्तु कारणम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 29

वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः ।

रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 12: हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्, Verse 30

आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः ।

जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम् ॥ ३०॥