स्कन्ध 6, अध्याय 11: युगधर्मव्यवस्थावर्णनम्, Verse 1
६.११ एकादशोऽध्यायः ।
युगधर्मव्यवस्थावर्णनम् ।
जनमेजय उवाच ।
भारावतारणार्थाय कथितं जन्म कृष्णयोः ।
संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ १॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.११ एकादशोऽध्यायः ।
युगधर्मव्यवस्थावर्णनम् ।
जनमेजय उवाच ।
भारावतारणार्थाय कथितं जन्म कृष्णयोः ।
संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ १॥
पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता ।
द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता ॥ २॥
वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः ।
भूभारोत्तारणार्थाय साधूनां रक्षणाय च ॥ ३॥
भगवन् भारते खण्डे देवैः सह जनार्दन ।
अवतारं गृहाणाशु वसुदेवगृहे विभो ॥ ४॥
एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः ।
बभूव सह रामेण भूभारोत्तारणाय वै ॥ ५॥
कियानुत्तारितो भारो हत्वा दुष्टाननेकशः ।
ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह ॥ ६॥
हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा ।
बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा ॥ ७॥
यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः ।
कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥ ८॥
आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा ।
भारावतरणं किं तत्कृतं कृष्णेन धीमता ॥ ९॥
सन्देहोऽयं महाभाग न निवर्तति चित्ततः ।
कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः ॥ १०॥
व्यास उवाच ।
राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः ।
नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम् ॥ ११॥
ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् ।
धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥ १२॥
धर्मार्थकामरसिका द्वापरे चाभवन्युगे ।
अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि ॥ १३॥
युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः ।
कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः ॥ १४॥
राजोवाच ।
ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः ।
कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः ॥ १५॥
त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः ।
वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह ॥ १६॥
कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः ।
आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः ॥ १७॥
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।
सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ॥ १८॥
व्यास उवाच ।
ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः ।
कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै ॥ १९॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल ॥ २०॥
सत्यं दया तथा दानं स्वदारगमनं तथा ।
अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥ २१॥
एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः ।
स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः ॥ २२॥
तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा ।
कलावस्मिन्युगे पापा नरकं यान्ति मानवाः ॥ २३॥
तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः ।
पुनश्च मानुषे लोके भवन्ति भुवि मानवाः ॥ २४॥
यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव ।
तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥ २५॥
यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा ।
नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः ॥ २६॥
एवं कालसमाचारो नान्यथाभूत्कदाचन ।
तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा ॥ २७॥
कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् ।
कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते ॥ २८॥
तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा ।
दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि ॥ २९॥
कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च ।
पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः ॥ ३०॥