स्कन्ध 6, अध्याय 10: कर्मणां गहनगतिवर्णनम्, Verse 1
६.१० दशमोऽध्यायः ।
कर्मणां गहनगतिवर्णनम् ।
जनमेजय उवाच ।
कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः ।
स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ १॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.१० दशमोऽध्यायः ।
कर्मणां गहनगतिवर्णनम् ।
जनमेजय उवाच ।
कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः ।
स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ १॥
यत्र देवाधिदेव्याश्च महिमातीव वर्णितः ।
सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः ॥ २॥
देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् ।
मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम् ॥ ३॥
देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् ।
एतत्सर्वं समाचक्ष्व कारणं करुणानिधे ॥ ४॥
सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः ।
नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते ॥ ५॥
तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् ।
सूत उवाच ।
इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः ॥ ६॥
तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् ।
व्यास उवाच ।
निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम् ॥ ७॥
कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः ।
सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः ॥ ८॥
अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् ।
सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः ॥ ९॥
शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् ।
अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा ॥ १०॥
जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् ।
निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि ॥ ११॥
क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते ।
देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत् ॥ १२॥
सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल ।
देहारम्भे च समये कालः प्रेरयतीव तत् ॥ १३॥
प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः ।
प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः ॥ १४॥
पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च ।
अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः ॥ १५॥
देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः ।
कर्मैव हि महाराज देहारम्भस्य कारणम् ॥ १६॥
कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः ।
ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा ॥ १७॥
दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल ।
अन्यथा देहसम्बन्धः कथं भवति भूपते ॥ १८॥
कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः ।
तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम् ॥ १९॥
मध्ये वेगः समायाति कस्यचित्कालपाकतः ।
तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा ॥ २०॥
पापं करोति मनुजस्तथा देवादयोऽपि च ।
तथा नारायणो राजन्नरश्च धर्मजावुभौ ॥ २१॥
जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ ।
पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता ॥ २२॥
देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः ।
नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते ॥ २३॥
नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः ।
इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते ॥ २४॥
प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् ।
आदाय क्रियते नूनं शरीरमिति निश्चयः ॥ २५॥
यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् ।
विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते ॥ २६॥
तथैवैते मयाख्याता पाण्डवाः पृथिवीपते ।
देवांशो वासुदेवोऽपि नारायणसमद्युतिः ॥ २७॥
शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः ।
शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम् ॥ २८॥
देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि ।
जननं मरणं दुःखं सुखं प्राप्नोति चावशः ॥ २९॥
पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः ।
स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम् ॥ ३०॥