स्कन्ध 6, अध्याय 9: नहुषस्वर्गच्युतिवर्णनम्, Verse 1
६.९ नवमोऽध्यायः ।
नहुषस्वर्गच्युतिवर्णनम् ।
व्यास उवाच ।
तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् ।
आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ १॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.९ नवमोऽध्यायः ।
नहुषस्वर्गच्युतिवर्णनम् ।
व्यास उवाच ।
तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् ।
आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ १॥
कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् ।
दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥ २॥
शच्युवाच ।
देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह ।
पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते ॥ ३॥
नहुषो नाम राजर्षिः स्थापितो भवदासने ।
त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः ॥ ४॥
पतिं मां कुरु चार्वङ्गिः तुरासाहं सुराधिपम् ।
एवं वदति मां पाप्मा किं करोमि बलार्दन ॥ ५॥
इन्द्र उवाच ।
कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया ।
तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु ॥ ६॥
व्यास उवाच ।
इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना ।
निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता ॥ ७॥
कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् ।
करिष्यति मदोन्मत्तो वरदानेन गर्वितः ॥ ८॥
देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः ।
तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥ ९॥
बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः ।
कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा ॥ १०॥
तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी ।
अनाथा किं करिष्यामि विपरीते विधौ विभो ॥ ११॥
नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता ।
नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥ १२॥
इन्द्र उवाच ।
उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने ।
शीलं ते दुःखिते काले परित्रातं भविष्यति ॥ १३॥
परेण रक्षिता नारी न भवेच्च पतिव्रता ।
उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला ॥ १४॥
शीलमेव हि नारीणां सदा रक्षति पापतः ।
तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥ १५॥
यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः ।
तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम् ॥ १६॥
एकान्ते तत्समीपे त्वं गत्वा वद मदालसे ।
ऋषियानेन दिव्येन मामुपैहि जगत्पते ॥ १७॥
एवं तव वशे प्रीता भविष्यामीति मे ततम् ।
इति तं वद सुश्रोणि तदा तु परिमोहितः ॥ १८॥
कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः ।
अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥ १९॥
साहाय्यं जगदम्बा ते करिष्यति न संशयः ।
जगदम्बापदस्मर्तुः सङ्कटं न कदाचन ॥ २०॥
यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल ।
तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम् ॥ २१॥
भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः ।
व्यास उवाच ।
इत्याख्याता शची तेन जगाम नहुषं प्रति ॥ २२॥
तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा ।
नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत् ॥ २३॥
स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि ।
दासोऽहं तव सत्येन पालितं वचनं त्वया ॥ २४॥
यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि ।
न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥ २५॥
कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् ।
शच्युवाच ।
सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव ॥ २६॥
मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो ।
वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम् ॥ २७॥
ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि ।
नहुष उवाच ।
कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम् ॥ २८॥
अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् ।
शच्युवाच ।
कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ॥ २९॥
शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव ।
राजानः सत्यवचसो दुर्लभा एव भूतले ॥ ३०॥