स्कन्ध 6, अध्याय 8: इन्द्राण्या शक्रदर्शनम्, Verse 1
६.८ अष्टमोऽध्यायः ।
इन्द्राण्या शक्रदर्शनम् ।
व्यास उवाच ।
नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् ।
चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै ॥ १॥
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.८ अष्टमोऽध्यायः ।
इन्द्राण्या शक्रदर्शनम् ।
व्यास उवाच ।
नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् ।
चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै ॥ १॥
देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल ।
इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम् ॥ २॥
इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः ।
अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥ ३॥
क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो ।
निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ ४॥
शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः ।
कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता ॥ ५॥
त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो ।
त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥ ६॥
सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् ।
वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः ॥ ७॥
रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः ।
रसहानिर्बलात्कारे कृते सति तु जायते ॥ ८॥
उभयोः सदृशं प्रेम यदि पार्थिवसत्तम ।
तदा वै सुखसम्पत्तिरुभयोरुपजायते ॥ ९॥
तस्माद्भावमिमं मुञ्च परदाराभिमर्शने ।
सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥ १०॥
ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् ।
तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव ॥ ११॥
नहुष उवाच ।
गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः ।
वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥ १२॥
परोपदेशे कुशला प्रभवन्ति नराः किल ।
कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥ १३॥
मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः ।
एतस्याः परमं देवाः सुखमेव भविष्यति ॥ १४॥
अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः ।
विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह ॥ १५॥
इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा ।
तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम् ॥ १६॥
इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् ।
इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम् ॥ १७॥
व्यास उवाच ।
ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः ।
जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ॥ १८॥
सा देया नहुषायाद्य वासवोऽसौ कृतो यतः ।
वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी ॥ १९॥
बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः ।
नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् ॥ २०॥
देवा ऊचुः ।
उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति ।
अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥ २१॥
गुरुरुवाच ।
तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् ।
करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे ॥ २२॥
इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् ।
अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः ॥ २३॥
इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् ।
भर्तुरानयने यत्नं करोतु मम वाक्यतः ॥ २४॥
इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः ।
नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः ॥ २५॥
तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः ।
जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥ २६॥
अद्यास्मि वासवः कान्ते भज मां चारुलोचने ।
पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥ २७॥
इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता ।
वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥ २८॥
किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् ।
इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः ॥ २९॥
ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि ।
तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते ॥ ३०॥