स्कन्ध 1, अध्याय 13: पुरूरवस उर्वश्याश्च चरित्रवर्णनम्, Verse 1
१.१३ त्रयोदशोऽध्यायः ।
पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।
सूत उवाच ।
सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः ।
सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ १॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
१.१३ त्रयोदशोऽध्यायः ।
पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।
सूत उवाच ।
सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः ।
सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ १॥
प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् ।
चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः ॥ २॥
मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा ।
सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा ॥ ३॥
सामदानादयः सर्वे वशगास्तस्य भूपतेः ।
वर्णाश्रमान्स्वधर्मस्थान्कुर्वन् राज्यं शशास ह ॥ ४॥
यज्ञांश्च विविधांश्चक्रे स राजा बहुदक्षिणान् ।
दानानि च पवित्राणि ददावथ नराधिपः ॥ ५॥
तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ।
श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम् ॥ ६॥
ब्रह्मशापाभितप्ता सा मानुषं लोकमास्थिता ।
गुणिनं तं नृपं मत्वा वरयामास मानिनी ॥ ७॥
समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना ।
एतावुरणकौ राजन्न्यस्तौ रक्षस्व मानद ॥ ८॥
घृतं मे भक्षणं नित्यं नान्यत्किञ्चिन्नृपाशनम् ।
नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात् ॥ ९॥
भाषाबन्धस्त्वयं राजन् यदि भग्नो भविष्यति ।
तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ १०॥
अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत् ।
स्थिता भाषणबन्धेन शापानुगहकाम्यया ॥ ११॥
रेमे तदा स भूपालो लीनो वर्षगणान्बहून् ।
धर्मकर्मादिकं त्यक्त्वा चोर्वश्या मदमोहितः ॥ १२॥
एकचित्तस्तु सञ्जातस्तन्मनस्को महीपतिः ।
न शशाक तया हीनः क्षणमप्यतिमोहितः ॥ १३॥
एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः ।
उर्वशीं नागतां दृष्ट्वा गन्धर्वानाह देवराट् ॥ १४॥
उर्वशीमानयध्वं भो गन्धर्वाः सर्व एव हि ।
हृत्वोरणौ गृहात्तस्य भूपतेः समये किल ॥ १५॥
उर्वशीरहितं स्थानं मदीयं नातिशोभते ।
येन केनाप्युपायेन तामानयत कामिनीम् ॥ १६॥
इत्युक्तास्तेऽथ गन्धर्वा विश्वावसुपुरोगमाः ।
ततो गत्वा महागाढे तमसि प्रत्युपस्थिते ॥ १७॥
जह्रुस्तावुरणौ देवा रममाणं विलोक्य तम् ।
चक्रन्दतुस्तदा तौ तु ह्रियमाणौ विहायसा ॥ १८॥
उर्वशी तदुपाकर्ण्य क्रन्दितं सुतयोरिव ।
कुपितोवाच राजानं समयोऽयं कृतो मया ॥ १९॥
नष्टाहं तव विश्वासाद्धृतौ चोरैर्ममोरणौ ।
राजन्पुत्रसमावेतौ त्वं किं शेषे स्त्रिया समः ॥ २०॥
हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ।
उरणौ मे गतौ चाद्य सदा प्राणप्रियौ मम ॥ २१॥
एवं विलप्यमानां तां दृष्ट्वा राजा विमोहितः ।
नग्न एव ययौ तूर्णं पृष्ठतः पृथिवीपतिः ॥ २२॥
विद्युत्प्रकाशिता तत्र गन्धर्वैर्नृपवेश्मनि ।
नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया ॥ २३॥
त्यक्त्वोरणौ गताः सर्वे गन्धर्वाः पथि पार्थिवः ।
नग्नो जग्राह तौ श्रान्तो जगाम स्वगृहं प्रति ॥ २४॥
तदोर्वशीं गतां दृष्ट्वा विललापातिदुःखितः ।
नग्नं वीक्ष्य पतिं नारी गता सा वरवर्णिनी ॥ २५॥
क्रन्दन्स देशदेशेषु बभ्राम नृपतिः स्वयम् ।
तच्चित्तो विह्वलः शोचन्विवशः काममोहितः ॥ २६॥
भ्रमन्वै सकलां पृथ्वीं कुरुक्षेत्रे ददर्श ताम् ।
दृष्ट्वा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः ॥ २७॥
अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
मां त्वं त्वन्मनसं कान्तं वशगं चाप्यनागसम् ॥ २८॥
स देहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
खादन्त्येनं वृकाः काकास्त्वया त्यक्तं वरोरु यत् ॥ २९॥
एवं विलपमानं तं राजानं प्राह चोर्वशी ।
दुःखितं कृपणं श्रान्तं कामार्तं विवशं भृशम् ॥ ३०॥