Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 1

६.७ सप्तमोऽध्यायः ।

इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।

व्यास उवाच ।

अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ ।

मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 2

इन्द्रोऽपि भयसन्त्रस्तो ययाविन्द्रपुरीं ततः ।

मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ ॥ २॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 3

किमस्माभिः कृतं पापं यदसौ वञ्चितः किल ।

मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 4

अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल ।

विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 5

धिगियं ममता पापमूलमेवमनर्थकृत् ।

यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 6

मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् ।

पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 7

विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् ।

वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 8

नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते ।

हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 9

द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ ।

प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 10

अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ ।

धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 11

मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः ।

जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 12

त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत ।

रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 13

यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् ।

संस्कारं कारयामास विधिवत्पारलौकिकम् ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 14

स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् ।

शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 15

यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् ।

तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 16

इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः ।

मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम् ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 17

जनमेजय उवाच ।

हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् ।

सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 18

व्यास उवाच ।

किं पृच्छसि महाभाग सन्देहः कीदृशस्तव ।

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 19

बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् ।

सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 20

शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने ।

प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 21

न चापदि सहायोऽभूद्वासुदेवः कथञ्चन ।

समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 22

दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् ।

पिता माता तथा भार्या भ्राता वाथ सहोदरः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 23

सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः ।

प्रतिकूले गते दैवे न कोऽप्येति सहायताम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 24

भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा ।

वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 25

शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः ।

को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 26

जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् ।

देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 27

सर्वत्रैव कथा तस्य विस्तारमगमत्किल ।

किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 28

वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् ।

वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 29

यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् ।

को नाम वचनं दत्त्वा विपरीतमथाचरेत् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 6, अध्याय 7: इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्, Verse 30

विना शक्रं हरिं वापि यथायं विनिपातितः ।

एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम् ॥ ३०॥