स्कन्ध 6, अध्याय 6: छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम्, Verse 1
६.६ षष्ठोऽध्यायः ।
छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।
व्यास उवाच ।
एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः ।
(जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमं ।
) ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा ॥ १॥