स्कन्ध 6, अध्याय 5: देवीसमाराधनाय देवकृतस्तुतिवर्णनम्, Verse 1
६.५ पञ्चमोऽध्यायः ।
देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।
व्यास उवाच ।
तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् ।
प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते ॥ १॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.५ पञ्चमोऽध्यायः ।
देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।
व्यास उवाच ।
तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् ।
प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते ॥ १॥
विष्णुरुवाच ।
किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः ।
सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे ॥ २॥
देवा ऊचुः ।
किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते ।
सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः ॥ ३॥
त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः ।
वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः ॥ ४॥
अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः ।
त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥ ५॥
विष्णुरुवाच ।
न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् ।
तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥ ६॥
अवश्यं करणीयं मे भवतां हितमात्मना ।
बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा ॥ ७॥
उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः ।
सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः ॥ ८॥
ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च ।
दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः ॥ ९॥
अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः ।
ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः ॥ १०॥
दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् ।
प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥ ११॥
गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः ।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ १२॥
सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि ।
मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः ॥ १३॥
अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् ।
साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः ॥ १४॥
समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये ।
मरणं विबुधास्तस्य नान्यथा सम्भविष्यति ॥ १५॥
गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः ।
इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥ १६॥
यथा स याति विश्वासं तथा कार्यं प्रतारणम् ।
गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम् ॥ १७॥
विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा ।
विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥ १८॥
मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् ।
न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥ १९॥
नान्यथा बलवान्वध्यः शूरधर्मेण जायते ।
वामनं रूपमाधाय मयायं वञ्चितो बलिः ॥ २०॥
कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः ।
भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम् ॥ २१॥
गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः ।
साहाय्यं सा योगमाया भवतां संविधास्यति ॥ २२॥
वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् ।
सिद्धिदां कामदां कामां दुरापामकृतात्मभिः ॥ २३॥
इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे ।
मोहिनी सा महामाया मोहयिष्यति दानवम् ॥ २४॥
मोहितो मायया वृत्रः सुखसाध्यो भविष्यति ।
प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति ॥ २५॥
नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति ।
अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥ २६॥
तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः ।
भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥ २७॥
पुरा मयापि सङ्ग्रामं कृत्वा परमदारुणम् ।
पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ ॥ २८॥
स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा ।
मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ॥ २९॥
विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ ।
तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥ ३०॥