स्कन्ध 6, अध्याय 4: ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम्, Verse 1
६.४ चतुर्थोऽध्यायः ।
ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।
व्यास उवाच ।
निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः ।
निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम् ॥ १॥