स्कन्ध 6, अध्याय 3: ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम्, Verse 1
६.३ तृतीयोऽध्यायः ।
ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।
व्यास उवाच ।
कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः ।
निर्जगाम रथारूढो हन्तुं शक्रं महाबलः ॥ १॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.३ तृतीयोऽध्यायः ।
ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।
व्यास उवाच ।
कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः ।
निर्जगाम रथारूढो हन्तुं शक्रं महाबलः ॥ १॥
तदैव राक्षसाः क्रूराः पुरा देवपराजिताः ।
समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम् ॥ २॥
इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् ।
वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम् ॥ ३॥
दूता ऊचुः ।
स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव ।
बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल ॥ ४॥
अविचारेण नाशार्थं तव क्रोधान्वितेन वै ।
पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः ॥ ५॥
यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् ।
मेरुमन्दरसङ्काशो घोरशब्दोऽतिदारुणः ॥ ६॥
एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् ।
आगत्योचुः सुरपतिं शृण्वन्तं दूतभाषितम् ॥ ७॥
गणाः ऊचुः ।
मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये ।
बहूनि भयशंसीनि पक्षिणां विरुतानि च ॥ ८॥
काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः ।
रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि ॥ ९॥
चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् ।
वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः ॥ १०॥
श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च ।
राक्षसीनां महाभाग भवनोपरि दारुणः ॥ ११॥
प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद ।
प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः ॥ १२॥
कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे ।
यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः ॥ १३॥
रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे ।
केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः ॥ १४॥
एवंविधानि देवेश भूकम्पोल्कादयस्तथा ।
गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे ॥ १५॥
सरटानां च जालानि प्रभवन्ति गृहे गृहे ।
अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः ॥ १६॥
व्यास उवाच ।
इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः ।
बृहस्पतिं समाहूय पप्रच्छ च मनोगतम् ॥ १७॥
इन्द्र उवाच ।
ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै ।
वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः ॥ १८॥
सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने ।
बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा ॥ १९॥
कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् ।
यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम् ॥ २०॥
बृहस्पतिरुवाच ।
किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् ।
अनागसं मुनिं हत्वा किं फलं समुपार्जितम् ॥ २१॥
अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् ।
विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता ॥ २२॥
परोपतापनं कर्म न कर्तव्यं कदाचन ।
न सुखं विन्दते प्राणी परपीडापरायणः ॥ २३॥
मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना ।
तस्य पापस्य सहसा फलमेतदुपागतम् ॥ २४॥
अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः ।
हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः ॥ २५॥
आयुधानि च सर्वाणि वज्रतुल्यानि वासव ।
त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः ॥ २६॥
समागच्छति दुर्धर्षो रथारूढः प्रतापवान् ।
देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति ॥ २७॥
कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ ।
गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः ॥ २८॥
सदनानि विहायैवामराः सर्वे पलायिताः ।
तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः ॥ २९॥
आज्ञापयामास तदा सेनोद्योगाय सेवकान् ।
आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान् ॥ ३०॥