स्कन्ध 6, अध्याय 2: त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम्, Verse 1
६.२ द्वितीयोऽध्यायः ।
त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।
व्यास उवाच ।
अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः ।
त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम् ॥ १॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
६.२ द्वितीयोऽध्यायः ।
त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।
व्यास उवाच ।
अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः ।
त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम् ॥ १॥
तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् ।
रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात् ॥ २॥
कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः ।
रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः ॥ ३॥
इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् ।
शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम् ॥ ४॥
तदभिघातहतः स धरातले किल पपात ममार च तापसः ।
शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम् ॥ ५॥
तं निहत्य मुदमाप सुरेश- श्चुक्रुशुश्च मुनयस्तु संस्थिताः ।
हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना ॥ ६॥
विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा ।
फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य ॥ ७॥
तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु ।
स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः ॥ ८॥
तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा ।
चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः ॥ ९॥
विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् ।
मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥ १०॥
तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ।
मा जीवतु महातेजा भाति जीवन्निव स्वयम् ॥ ११॥
इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् ।
तक्षोवाच ।
महास्कन्धो भृशं भाति परशुर्न तरिष्यति ॥ १२॥
ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् ।
त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम् ॥ १३॥
अहं बिभेमि पापाद्वै मृतस्यैव च मारणे ।
मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम् ॥ १४॥
भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् ।
इन्द्र उवाच ।
सजीव इव देहोऽयमाभाति विशदाकृतिः ॥ १५॥
तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम ।
तक्षोवाच ।
नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा ॥ १६॥
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् ।
इन्द्र उवाच ।
प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै ॥ १७॥
शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते ।
तक्षोवाच ।
त्वं लोभाभिहतः पापं करोषि मघवन्निह ॥ १८॥
तं विनाहं कथं पापं करोमि वद मे विभो ।
इन्द्र उवाच ।
मखेषु खलु भागं ते करिष्यामि सदैव हि ॥ १९॥
शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः ।
शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम् ॥ २०॥
व्यास उवाच ।
एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः ।
कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥ २१॥
छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि ।
तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥ २२॥
कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः ।
पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥ २३॥
येन वेदानधीते स्म सोमं च पिबते तथा ।
तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः ॥ २४॥
येन सर्वा दिशः कामं पिबन्निव निरीक्षते ।
तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥ २५॥
यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल ।
विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप ॥ २६॥
एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् ।
मुमोद मनसा राजन् जगाम त्रिदिवं पुनः ॥ २७॥
गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ ।
यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥ २८॥
इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् ।
मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन् ॥ २९॥
तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् ।
चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥ ३०॥