स्कन्ध 6, अध्याय 1: त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम्, Verse 1
६ श्रीमद्देवीभागवतमहापुराणे षष्ठः स्कन्धः ६.१ प्रथमोऽध्यायः ।
त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग मिष्टं ते वचनामृतम् ।
न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम् ॥ १॥