स्कन्ध 5, अध्याय 35: सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम्, Verse 1
५.३५ पञ्चत्रिंशोऽध्यायः ।
सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ ।
प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥ १॥