स्कन्ध 5, अध्याय 34: भगवत्याः पूजाराधनविधिवर्णनम्, Verse 1
५.३४ चतुस्त्रिंशोऽध्यायः ।
भगवत्याः पूजाराधनविधिवर्णनम् ।
राजोवाच ।
भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् ।
पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ १॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३४ चतुस्त्रिंशोऽध्यायः ।
भगवत्याः पूजाराधनविधिवर्णनम् ।
राजोवाच ।
भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् ।
पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ १॥
ऋषिरुवाच ।
शृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् ।
कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम् ॥ २॥
आदौ स्नानविधिं कृत्वा शुचिः शुक्लाम्बरो नरः ।
आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥ ३॥
ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् ।
तत्रोपविश्य विधिवत् त्रिराचम्य मुदान्वितः ॥ ४॥
पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः ।
प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च ॥ ५॥
कुर्यात्प्राणप्रतिष्ठां तु सम्भारं प्रोक्ष्य मन्त्रतः ।
कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥ ६॥
शुभे ताम्रमये पात्रे चन्दनेन सितेन च ।
षट्कोणं विलिखेद्यन्त्रं चाष्टकोणं ततो बहिः ॥ ७॥
नवाक्षरस्य मन्त्रस्य बीजानि विलिखेत्ततः ।
कृत्वा यन्त्रप्रतिष्ठाञ्च वेदोक्ता संविधाय च ॥ ८॥
अर्चां वा धातवीं कुर्यात्पूजामन्त्रैः शिवोदितैः ।
पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥ ९॥
कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः ।
जपेन्नवाक्षरं मन्त्रं सततं ध्यानपूर्वकम् ॥ १०॥
होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् ।
भोजनं ब्राह्मणानाञ्च तद्दशांशेन कारयेत् ॥ ११॥
चरित्रत्रयपाठञ्च नित्यं कुर्याद्विसर्जयेत् ।
नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥ १२॥
आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप ।
नवरात्रोपवासो वै कर्तव्यः शुभमिच्छता ॥ १३॥
होमः सुविपुलः कार्यो जप्यमन्त्रैः सुपायसैः ।
शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः ॥ १४॥
छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभैः ।
हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः ॥ १५॥
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।
कर्तव्यं पूजनं देव्या ब्राह्मणानाञ्च भोजनम् ॥ १६॥
निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते ।
अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः ॥ १७॥
राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् ।
शत्रुभिः पीडितो हन्ति रिपुं मायाप्रसादतः ॥ १८॥
विद्यार्थी पूजनं यस्तु करोति नियतेन्द्रियः ।
अनवद्यां शुभा विद्यां विन्दते नात्र संशयः ॥ १९॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः ।
पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥ २०॥
नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः ।
वाञ्छितं फलमाप्नोति सर्वदा भक्तितत्परः ॥ २१॥
आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् ।
करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात् ॥ २२॥
विधिवन्मण्डलं कृत्वा पूजास्थानं प्रकल्पयेत् ।
कलशं स्थापयेत्तत्र वेदमन्त्रविधानतः ॥ २३॥
यन्त्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि ।
वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान् ॥ २४॥
कृत्वोपरि वितानञ्च पुष्पमालासमावृतम् ।
धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ॥ २५॥
त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः ।
वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने ॥ २६॥
धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः ।
गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा ॥ २७॥
उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः ।
कन्यकानां पूजनञ्च विधेयं विधिपूर्वकम् ॥ २८॥
चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा ।
सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः ॥ २९॥
एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः ।
अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥ ३०॥