स्कन्ध 5, अध्याय 33: देवीमाहात्म्यवर्णनम्, Verse 1
५.३३ त्रयस्त्रिंशोऽध्यायः ।
देवीमाहात्म्यवर्णनम् ।
राजोवाव मुने वैश्योऽयमधुना वने मे मित्रतां गतः ।
पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ १॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३३ त्रयस्त्रिंशोऽध्यायः ।
देवीमाहात्म्यवर्णनम् ।
राजोवाव मुने वैश्योऽयमधुना वने मे मित्रतां गतः ।
पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ १॥
(कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः ।
न शान्तिमुपयात्येष तथापि मम साम्प्रतम् ।
गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते ।
) निष्कारणञ्च मे चिन्ता हृदयान्न निवर्तते ।
हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ २॥
भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना ।
कोशक्षयं करिष्यन्ति रिपवोऽतिबलात्क्षणात् ॥ ३॥
इत्येवं चिन्तयानस्य न मे निद्रा तनौ सुखम् ।
जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ ४॥
जानतोऽपि मनो भ्रान्तं न स्थिरं भवति प्रभो ।
कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ ५॥
न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् ।
भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ ६॥
मोहो नैवापसरति किं तत्कारणमद्भुतम् ।
स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥ ७॥
कारणं ब्रूहि मोहस्य ममास्य च दयानिधे ।
व्यास उवाच ।
इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥ ८॥
तमुवाच परं ज्ञानं शोकमोहविनाशनम् ।
ऋषिरुवाच ।
शृणु राजन् प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ ९॥
महामायेति विख्याता सर्वेषां प्राणिनामिह ।
ब्रह्मा विष्णुस्तथेशानस्तुराषाड् वरुणोऽनिलः ॥ १०॥
सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः ।
वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ ११॥
मायाधीनाश्च ते सर्वे भाजनं बन्धमोक्षयोः ।
तया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १२॥
तद्वशे वर्तते नूनं मोहजालेन यन्त्रितम् ।
त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः ॥ १३॥
ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा ।
ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥ १४॥
तेऽपि रागवशाल्लोके भ्रमन्ति परिमोहिताः ।
पुरा सत्ययुगे राजन् विष्णुर्नारायणः स्वयम् ॥ १५॥
श्वेतद्वीपं समासाद्य चकार विपुलं तपः ।
वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥ १६॥
अनश्वरसुखायासौ चिन्तयानस्ततः परम् ।
एकस्मिन्निर्जने देशे ब्रह्मापि परमाद्भुते ॥ १७॥
स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये ।
कदाचिद्वासुदेवोऽसौ स्थलान्तरमतिर्हरिः ॥ १८॥
तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया ।
चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ १९॥
मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ ।
अन्योन्यं पृष्टवन्तौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ २०॥
ब्रह्मा प्रोवाच तं देवं कर्ताहं जगतः किल ।
विष्णस्तमाह भो मूर्ख जगत्कर्ताहमच्युतः ॥ २१॥
त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः ।
सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥ २२॥
मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् ।
शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ २३॥
मया तौ निहतौ कामं दानवौ मधुकैटभौ ।
कथं गर्वायसे मन्द मोहोऽयं त्यज साम्प्रतम् ॥ २४॥
न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते ।
ऋषिरुवाच ।
एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥ २५॥
स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः ।
प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥ २६॥
मध्ये लिङ्गं सुधाश्वेतं विपुलं दीर्घमद्भुतम् ।
आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥ २७॥
तौ सम्बोध्य महाभागौ विवदन्तौ परस्परम् ।
ब्रह्मन् विष्णो विवादं मा कुरुतां वां परस्परम् ॥ २८॥
लिङ्गस्यास्य परं पारमधस्तादुपरि धुवम् ।
यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥ २९॥
एकः प्रयातु पातालमाकाशमपरोऽधुना ।
प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥ ३०॥