स्कन्ध 1, अध्याय 12: सुद्युम्नस्तुतिः, Verse 1
१.१२ द्वादशोऽध्यायः ।
सुद्युम्नस्तुतिः ।
सूत उवाच ।
ततः पुरूरवा जज्ञे इलायां कथयामि वः ।
बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ १॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
१.१२ द्वादशोऽध्यायः ।
सुद्युम्नस्तुतिः ।
सूत उवाच ।
ततः पुरूरवा जज्ञे इलायां कथयामि वः ।
बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ १॥
सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः ।
सैन्धवं हयमारुह्य चचार मृगयां वने ॥ २॥
युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः ।
धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम् ॥ ३॥
स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् ।
शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा ॥ ४॥
शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् ।
निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत् ॥ ५॥
मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् ।
अशोकलतिकाकीर्णं बकुलैरधिवासितम् ॥ ६॥
सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा ।
आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम् ॥ ७॥
दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् ।
यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम् ॥ ८॥
हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् ।
भ्रमरालिरुतारामं वनं सर्वसुखावहम् ॥ ९॥
दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः ।
वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान् ॥ १०॥
प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः ।
अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः ॥ ११॥
किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः ।
दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः ॥ १२॥
किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः ।
कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम् ॥ १३॥
ऋषय ऊचुः ।
सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण ।
सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः ॥ १४॥
किं तत्कारणमाचक्ष्व वने तत्र मनोहरे ।
किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत ॥ १५॥
सूत उवाच ।
एकदा गिरिशं द्रष्टुमृषयः सनकादयः ।
दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ १६॥
तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः ।
क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा ॥ १७॥
उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा ।
तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम् ॥ १८॥
भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् ।
लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी ॥ १९॥
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।
परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम् ॥ २०॥
ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः ।
कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम् ॥ २१॥
अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने ।
वनं च प्रविशेदेतत्स वै योषिद्भविष्यति ॥ २२॥
इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् ।
वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत् ॥ २३॥
सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह ।
तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः ॥ २४॥
चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया ।
विचचार बहिस्तस्माद्वनदेशादितस्ततः ॥ २५॥
इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना ।
विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा ॥ २६॥
स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् ।
हावभावकलायुक्तां चकमे भगवाम्बुधः ॥ २७॥
सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् ।
संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम् ॥ २८॥
स तस्यां जनयामास पुरूरवसमात्मजम् ।
इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम् ॥ २९॥
सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता ।
सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम् ॥ ३०॥