Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 1

५.३२ द्वात्रिंशोऽध्यायः ।

सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।

जनमेजय उवाच ।

महिमा वर्णितः सम्यक्चण्डिकायास्त्वया मुने ।

केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 2

प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् ।

आराध्य कामदां देवीं कथयस्व कृपानिधे ॥ २॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 3

उपासनाविधिं ब्रह्मंस्तथा पूजाविधिं वद ।

विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 4

सूत उवाच ।

इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः ।

प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 5

व्यास उवाच ।

स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः ।

बभूव परमोदारः प्रजापालनतत्परः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 6

सत्यवादी कर्मपरो ब्राह्मणानाञ्च पूजकः ।

गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 7

दानशीलोऽविरोधी च धनुर्वेदैकपारगः ।

एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 8

बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् ।

हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 9

कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः ।

सुरथः सैन्यमादाय सम्मुखः समपद्यत ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 10

युद्धं समभवद्घोरं तस्य तैरतिदारुणैः ।

म्लेच्छानां तु बलं स्वल्पं राज्ञस्द्बलमद्भुतम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 11

तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः ।

भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमण्डितम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 12

चिन्तयामास मेधावी राजा नीतिविचक्षणः ।

प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 13

स्थानं गृहीत्वा विपुलं परिखादुर्गमण्डितम् ।

कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 14

मन्त्रिणः शत्रुवशगा मन्त्रयोग्या न ते किल ।

किं करोमीति मनसा भूपतिः समचिन्तयत् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 15

कदाचित्ते गहीत्वा मां पापाचाराः पराश्रिताः ।

शत्रुभ्योऽथ प्रदास्यन्ति तदा किं वा भविष्यति ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 16

पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन ।

किन्न ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 17

भ्रातरं पितरं मित्रं सुहृदं बान्धवं तथा ।

गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 18

तस्मान्मया न कर्तव्यो विश्वासः सर्वथाधुना ।

मन्त्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 19

इति सञ्चिन्त्य मनसा राजा परमदुर्मनाः ।

एकाकी हयमारुह्य निर्जगाम पुरात्ततः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 20

असहायोऽथ निर्गत्य गहनं वनमाश्रितः ।

चिन्तयामास मेधावी क्व गन्तव्यं मया पुनः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 21

योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् ।

ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 22

बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम् ।

निर्वैरश्वापदाकीर्णं कोकिलारावमण्डितम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 23

शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् ।

नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 24

होमधूमसुगन्धेन प्रीतिदं प्राणिनां सदा ।

वेदध्वनिसमाक्रान्तं स्वर्गादपि मनोहरम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 25

दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः ।

भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 26

आसज्य पादपेऽश्वं तु जगाम विनयान्वितः ।

दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 27

मृगाजिनासनं शान्तं तपसातिकृशं ऋजुम् ।

अध्यापयन्तं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 28

रहितं क्रोधलोभाद्यैर्द्वन्द्वातीतं विमत्सरम् ।

आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 29

तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा ।

तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 32: सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम्, Verse 30

उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः ।

शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥ ३०॥