स्कन्ध 5, अध्याय 31: शुम्भवधः, Verse 1
५.३१ एकत्रिंशोऽध्यायः ।
शुम्भवधः ।
व्यास उवाच ।
इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा ।
उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३१ एकत्रिंशोऽध्यायः ।
शुम्भवधः ।
व्यास उवाच ।
इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा ।
उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १॥
शुम्भ उवाच ।
जाल्माः किं श्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे ।
निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् ॥ २॥
कालः कर्ता शुभानां वाशुभानां बलवत्तरः ।
का चिन्ता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ ३॥
यद्भवति तद्भवतु यत्करोति करोतु तत् ।
न मे चिन्तास्ति कुत्रापि मरणाज्जीवनात्तथा ॥ ४॥
स कालोऽप्यन्यथाकर्तुं भावितो नेशते क्वचित् ।
न वर्षति च पर्जन्यः श्रावणे मासि सर्वथा ॥ ५॥
कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने ।
अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्वयम् ॥ ६॥
कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् ।
दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥
७
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥
८
रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा ।
तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ ९॥
प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसम्मिते ।
निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ १०॥
चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल ।
पतन्ति भवनात्पञ्च नव चेन्द्रास्तथा पुनः ॥ ११॥
तथैव द्विगुणे विष्णुर्मरणायोपकल्पते ।
तथैव द्विगुणे काले शङ्करः शान्तिमेति च ॥ १२॥
का चिन्ता मरणे मूढा निश्चले दैवनिर्मिते ।
मही महीधराणाञ्च नाशः सूर्यशशाङ्कयोः ॥ १३॥
जातस्य हि ध्रुवं मृत्युर्धुवं जन्म मृतस्य च ।
अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् ॥ १४॥
रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे ।
जयो वा मरणं वापि भवत्वद्यैव दैवतः ॥ १५॥
इत्युक्त्वा सैनिकाञ्छुम्भो रथमास्थाय सत्वरः ।
प्रययावम्बिका यत्र संस्थिता तु हिमाचले ॥ १६॥
सैन्यं प्रचलितं तस्य सङ्गे तत्र चतुर्विधम् ।
हस्त्यश्वरथपादातिसंयुतं सायुधं बहु ॥ १७॥
तत्र गत्वाचले शुम्भः संस्थितां जगदम्बिकाम् ।
त्रैलोक्यमोहिनीं कान्तामपश्यत्सिंहवाहिनीम् ॥ १८॥
सर्वाभरणभूषाढ्यां सर्वलक्षणसंवृताम् ।
स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥ १९॥
पुष्पैश्च पूज्यमानाञ्च मन्दारपादपोद्भवैः ।
कुर्वाणां शङ्खनिनदं घण्टानादं मनोहरम् ॥ २०॥
दृष्ट्वा तां मोहमगमच्छुम्भः कामविमोहितः ।
पञ्चबाणाहतः कामं मनसा समचिन्तयत् ॥ २१॥
अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् ।
सौकुमार्यञ्ज धैर्यञ्च परस्परविरोधि यत् ॥ २२॥
सुकुमारातितन्वङ्गी सद्यः प्रकटयौवना ।
चित्रमेतदसौ बाला कामभावविवर्जिता ॥ २३॥
कामकान्तासमा रूपे सर्वलक्षणलक्षिता ।
अम्बिकेयं किमेतत्तु हन्ति सर्वान्महाबलान् ॥ २४॥
उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् ।
न मन्त्रा वा मरालाक्षीसाधने सन्निधौ मम ॥ २५॥
सर्वमन्त्रमयी ह्येषा मोहिनी मदगर्विता ।
सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥ २६॥
पातालगमनं मेऽद्य न युक्तं समराङ्गणात् ।
सामदानविभेदैश्च नेयं साध्या महाबला ॥ २७॥
किं कर्तव्यं च गन्तव्यं विषमे समुपस्थिते ।
मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥ २८॥
मरणमृषिभिः प्रोक्तं सङ्गरे मङ्गलास्पदम् ।
यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ २९॥
प्राप्तेयं दैवरचिता नारी नरशतोत्तमा ।
नाशायास्मत्कुलस्येह सर्वथातिबलाबला ॥ ३०॥