स्कन्ध 5, अध्याय 30: युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम्, Verse 1
५.३० त्रिंशोऽध्यायः ।
युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।
व्यास उवाच ।
निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा ।
सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ १॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३० त्रिंशोऽध्यायः ।
युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।
व्यास उवाच ।
निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा ।
सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ १॥
तमाजगाम शुम्भोऽपि स्वबलेन समावृतः ।
प्रेक्षकोऽभूद्रणे राजा सङ्ग्रामरसपण्डितः ॥ २॥
गगने संस्थिता देवास्तदाभ्रपटलावृताः ।
दिदृक्षवस्तु सङ्ग्रामे सेन्द्रा यक्षगणास्तथा ॥ ३॥
निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् ।
चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम् ॥ ४॥
मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे ।
वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः ॥ ५॥
उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः ।
मरणायागतौ कालि मत्समीपमिहाधुना ॥ ६॥
दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा ।
जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया ॥ ७॥
आशा बलवती ह्येषा न जहाति नरं क्वचित् ।
भग्नं हृतबलं नष्टं गतपक्षं विचेतनम् ॥ ८॥
आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ ।
निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ ॥ ९॥
आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ ।
पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥ १०॥
व्यास उवाच ।
इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः ।
छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥ ११॥
दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः ।
तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ १२॥
केसरी केशजालानि धुन्वानः सैन्यसागरम् ।
गाहयामास बलवान्सरसीं वारणो यथा ॥ १३॥
नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् ।
चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान् ॥ १४॥
एवं विमथ्यमाने तु सैन्ये केसरिणा तदा ।
अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः ॥ १५॥
अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः ।
सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥ १६॥
तत्राजगाम तरसा शुम्भः सैन्यसमावृतः ।
निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम् ॥ १७॥
तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् ।
रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम् ॥ १८॥
तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् ।
सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा ॥ १९॥
विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा ।
मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥ २०॥
तं तथा दानवं देवी स्मितपूर्वमिदं वचः ।
बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके ॥ २१॥
गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् ।
जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च ॥ २२॥
अथवा मच्छराघातहतप्राणा रणाजिरे ।
प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः ॥ २३॥
कातरत्वं च शूरत्वं न भवत्येव सर्वथा ।
ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥ २४॥
व्यास उवाच ।
इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः ।
निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम् ॥ २५॥
धावमानस्तु तरसासिना सिंहं मदोत्कटम् ।
जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम् ॥ २६॥
ततो देवी स्वगदया वञ्चयित्वासिपातनम् ।
ताडयामास तं बाहोर्मूले परशुना तदा ॥ २७॥
खड्गेन निहतः सोऽपि बाहुमूले महामदः ।
संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥ २८॥
सापि घण्टास्वनं घोरं चकार भयदं नृणाम् ।
पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती ॥ २९॥
एवं परस्परं युद्धं बभूवातिभयप्रदम् ।
देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ ३०॥