स्कन्ध 5, अध्याय 29: देव्यासह युद्धकरणाय निशुम्भप्रयाणम्, Verse 1
५.२९ एकोनत्रिंशोऽध्यायः ।
देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।
व्यास उवाच ।
वरदानमिदं तस्य दानवस्य शिवार्पितम् ।
अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम् ॥ १॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२९ एकोनत्रिंशोऽध्यायः ।
देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।
व्यास उवाच ।
वरदानमिदं तस्य दानवस्य शिवार्पितम् ।
अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम् ॥ १॥
तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले ।
समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः ॥ २॥
असङ्ख्याता महावीर्या दानवा रक्तसम्भवाः ।
प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः ॥ ३॥
स तेन वरदानेन दर्पितः क्रोधसंयुतः ।
अभ्यगात्तरसा सङ्ख्ये हन्तुं देवीं सकालिकाम् ॥ ४॥
स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् ।
शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम् ॥ ५॥
गदया वारयामास शक्तिः सा शक्तिसंयुता ।
अताडयच्च चक्रेण रक्तबीजं महासुरम् ॥ ६॥
रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् ।
वज्राहतगिरेः शृङ्गान्निर्झरा इव गैरिका ॥ ७॥
यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः ।
समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः ॥ ८॥
ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च ।
रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम् ॥ ९॥
ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः ।
तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः ॥ १०॥
ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् ।
माहेश्वरी त्रिशूलेन दारयामास दानवम् ॥ ११॥
नारसिंही नखाघातैस्तं विव्याध महासुरम् ।
अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम् ॥ १२॥
कौमारी च तथा शक्त्या वक्षस्येनमताडयत् ।
सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः ॥ १३॥
गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् ।
शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः ॥ १४॥
तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः ।
जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम् ॥ १५॥
तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् ।
तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः ॥ १६॥
रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः ।
सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम् ॥ १७॥
प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः ।
भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः ॥ १८॥
कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः ।
महाकाया महावीर्या दानवा रक्तसम्भवाः ॥ १९॥
एकैव चण्डिकात्रास्ति तथा काली च मातरः ।
एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत् ॥ २०॥
निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः ।
आगमिष्यति सङ्ग्रामे ततोऽनर्थो महान्भवेत् ॥ २१॥
व्यास उवाच ।
एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् ।
यदा तदाम्बिका प्राह कालीं कमललोचनाम् ॥ २२॥
चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् ।
मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा ॥ २३॥
भक्षयन्ती चर रणे दानवानद्य कामतः ।
हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा ॥ २४॥
तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च ।
बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम् ॥ २५॥
भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे ।
एवमेषां क्षयो नूनं भविष्यति न चान्यथा ॥ २६॥
घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा ।
पिबन्ती क्षतजं सर्वं यतमानारिसङ्क्षये ॥ २७॥
इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् ।
इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम् ॥ २८॥
व्यास उवाच ।
इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा ।
पपौ च क्षतजं सर्वं रक्तबीजशरीरजम् ॥ २९॥
अम्बिका तं जघानाशु खड्गेन मुसलेन च ।
चखाद देहशकलांश्चामुण्डा तान्कृशोदरी ॥ ३०॥