स्कन्ध 5, अध्याय 27: रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम्, Verse 1
५.२७ सप्तविंशोऽध्यायः ।
रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।
व्यास उवाच ।
हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः ।
पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति ॥ १॥