स्कन्ध 5, अध्याय 26: चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम्, Verse 1
५.२६ षड्विंशोऽध्यायः ।
चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।
व्यास उवाच ।
इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ ।
जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ १॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२६ षड्विंशोऽध्यायः ।
चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।
व्यास उवाच ।
इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ ।
जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ १॥
दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् ।
ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः ॥ २॥
बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् ।
निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम् ॥ ३॥
त्वमेकासि वरारोहे कालिकासिंहसंयुता ।
जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम् ॥ ४॥
मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा ।
देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते ॥ ५॥
विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् ।
अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा ॥ ६॥
किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः ।
शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥ ७॥
ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः ।
जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम् ॥ ८॥
वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् ।
हितं तव विशालाक्षि सुखदं दुःखनाशनम् ॥ ९॥
दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः ।
सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥ १०॥
चतुरासि पिकालापे पश्य शुम्भबलं महत् ।
प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम् ॥ ११॥
प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल ।
सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते ॥ १२॥
शत्रुः सुराणां परमः शुम्भः समरदुर्जयः ।
तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः ॥ १३॥
तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते ।
दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥ १४॥
कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् ।
देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम् ॥ १५॥
भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् ।
चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥
१६
ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् ।
निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥ १७॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका ।
मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ॥ १८॥
गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः ।
त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम् ॥ १९॥
न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह ।
स्वामिनी सर्वभूतानामहमेव निशामय ॥ २०॥
शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः ।
घातिताश्च मया पूर्वं शतशो दैत्यदानवाः ॥ २१॥
ममाग्रे देववृन्दानि विनष्टानि युगे युगे ।
नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै ॥ २२॥
काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः ।
वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः ॥ २३॥
कुरु युद्धं वीरधर्मरक्षायै त्वं महामते ।
मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥ २४॥
किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना ।
वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम् ॥ २५॥
शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः ।
सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम् ॥ २६॥
क्रमशः सर्वदैत्यानां करिष्याम्यद्य सङ्क्षयम् ।
विषादं त्यज मन्दात्मन् कुरु युद्धं विशाम्पते ॥ २७॥
त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् ।
ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥ २८॥
अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे ।
गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ॥ २९॥
गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना ।
किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥ ३०॥