स्कन्ध 5, अध्याय 25: देव्यासह युद्धाय चण्डमुण्डप्रेषणम्, Verse 1
५.२५ पञ्चविंशोऽध्यायः ।
देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।
व्यास उवाच ।
इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः ।
प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥ १॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२५ पञ्चविंशोऽध्यायः ।
देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।
व्यास उवाच ।
इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः ।
प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥ १॥
विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे ।
वृथा मनोरथांश्चित्ते करोषि मधुरं वदन् ॥ २॥
बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना ।
कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना ॥ ३॥
हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् ।
देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम् ॥ ४॥
क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी ।
अयुक्तः खलु संसारे विवाहविधिरेतयोः ॥ ५॥
सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् ।
करिणी गर्दभं वापि गवयं सुरभिः किमु ॥ ६॥
गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम ।
कुरु युद्धं न चेद्याहि पातालं तरसाधुना ॥ ७॥
व्यास उवाच ।
कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः ।
तामुवाच महाभाग क्रोधसंरक्तलोचनः ॥ ८॥
दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् ।
गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल ॥ ९॥
रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् ।
नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये ॥ १०॥
कालिकोवाच ।
किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् ।
स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि ॥ ११॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं दैत्यः सङ्गृह्य कार्मुकं दृढम् ।
कालिकां तां शरासारैर्ववर्षातिशिलाशितैः ॥ १२॥
देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः ।
तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः ॥ १३॥
तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् ।
बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम् ॥ १४॥
कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ ।
बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः ॥ १५॥
स चान्यं रथमारूढः कोपेन प्रज्वलन्निव ।
बाणवृष्टिं चकारोग्रां कालिकोपरि भारत ॥ १६॥
सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् ।
मुमोचान्यानुग्रवेगान्दानवोपरि कालिका ॥ १७॥
तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः ।
बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि ॥ १८॥
चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः ।
मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत् ॥ १९॥
विरथः परिघं गृह्य सर्वलोहमयं दृढम् ।
आजगाम रथोपस्थं कुपितो धूम्रलोचनः ॥ २०॥
वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः ।
अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने ॥ २१॥
इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा ।
हुङ्कारेणैव तं भस्म चकार तरसाम्बिका ॥ २२॥
दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः ।
चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि ॥ २३॥
देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् ।
मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः ॥ २४॥
रणभूमिस्तदा राजन् दारुणा समपद्यत ।
निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा ॥ २५॥
गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा ।
ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु ॥ २६॥
अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे ।
गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम् ॥ २७॥
तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः ।
दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान् ॥ २८॥
छिन्नपादकराक्षांश्च मञ्चकारोपितानपि ।
भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः ॥ २९॥
वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः ।
कथं भग्नाः समायाता नानीता किं वरानना ॥ ३०॥