स्कन्ध 5, अध्याय 24: देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम्, Verse 1
५.२४ चतुर्विंशोऽध्यायः ।
देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।
व्यास उवाच ।
देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः ।
किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात् ॥ १॥