स्कन्ध 5, अध्याय 23: देव्या सुग्रीवदूताय स्वव्रतकथनम्, Verse 1
५.२३ त्रयोविंशोऽध्यायः ।
देव्या सुग्रीवदूताय स्वव्रतकथनम् ।
व्यास उवाच ।
एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः ।
स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ १॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२३ त्रयोविंशोऽध्यायः ।
देव्या सुग्रीवदूताय स्वव्रतकथनम् ।
व्यास उवाच ।
एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः ।
स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ १॥
पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा ।
कौशिकीति समस्तेषु ततो लोकेषु पठ्यते ॥ २॥
निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् ।
कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता ॥ ३॥
मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी ।
कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥ ४॥
अम्बिकायाः परं रूपं विरराज मनोहरम् ।
सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम् ॥ ५॥
ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता ।
तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥ ६॥
कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे ।
निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे ॥ ७॥
इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा ।
कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥ ८॥
सा गत्वोपवने तस्थावम्बिका कालिकान्विता ।
जगावथ कलं तत्र जगन्मोहनमोहनम् ॥ ९॥
श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः ।
मुदञ्च परमां प्रापुरमरा गगने स्थिताः ॥ १०॥
तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ ।
चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया ॥ ११॥
आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् ।
अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् ॥ १२॥
दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ ।
जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम ॥ १३॥
तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे ।
ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम् ॥ १४॥
राजन् हिमालयात्कामं कामिनी काममोहिनी ।
सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥ १५॥
नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा ।
न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥ १६॥
गानञ्च तादृशं राजन् करोति जनरञ्जनम् ।
मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः ॥ १७॥
ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता ।
गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी ॥ १८॥
ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् ।
निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ॥ १९॥
देवानां सर्वरत्नानि गृहीतानि त्वया नृप ।
कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम ॥ २०॥
इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा ।
गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥ २१॥
विमानं वैधसं दिव्यं मरालध्वजसंयुतम् ।
त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम् ॥ २२॥
कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः ।
छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ॥ २३॥
पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम ।
गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च ॥ २४॥
अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ ।
भयात्तव महाराज रत्नानि विविधानि च ॥ २५॥
मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः ।
त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥ २६॥
कामधेनुर्गहीताद्य वर्तते सागरोद्भवा ।
मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः ॥ २७॥
एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि ।
कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना ॥ २८॥
सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ ।
अनया सम्भविष्यन्ति रत्नभूतानि भूपते ॥ २९॥
त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया ।
तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम् ॥ ३०॥