स्कन्ध 1, अध्याय 11: बुधोत्पत्तिः, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.११ एकादशोऽध्यायः ।
बुधोत्पत्तिः ।
ऋषय ऊचुः ।
कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका ।
कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ १॥
Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.११ एकादशोऽध्यायः ।
बुधोत्पत्तिः ।
ऋषय ऊचुः ।
कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका ।
कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ १॥
सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना ।
श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥ २॥
अमृतादपि मिष्टा ते वाणी सूत रसात्मिका ।
न तृप्यामो वयं सर्वे सुधया च यथामराः ॥ ३॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् ।
वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात् ॥ ४॥
गुरोस्तु दयिता भार्या तारा नामेति विश्रुता ।
रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला ॥ ५॥
गतैकदा विधोर्धाम यजमानस्य भामिनी ।
दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी ॥ ६॥
कामातुरस्तदा जातः शशी शशिमुखीं प्रति ।
सापि वीक्ष्य विधुं कामं जाता मदनपीडिता ॥ ७॥
तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः ।
तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥ ८॥
रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ ।
दिनानि कतिचित्तत्र जातानि रममाणयोः ॥ ९॥
बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् ।
प्रेषयामास शिष्यं तु नायाता सा वशीकृता ॥ १०॥
पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः ।
बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि ॥ ११॥
गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः ।
उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम् ॥ १२॥
किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् ।
रक्षिता मम भार्येयं सुन्दरी केन हेतुना ॥ १३॥
तव देव गुरुश्चाहं यजमानोऽसि सर्वथा ।
गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा ॥ १४॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
महापातकिनो ह्येते तत्संसर्गी च पञ्चमः ॥ १५॥
महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ।
न देवसदनार्होऽसि यदि भुक्तेयमङ्गना ॥ १६॥
मुञ्चेमामसितापाङ्गीं नयामि सदनं मम ।
नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥ १७॥
इत्येवं भाषमाणं तमुवाच रोहिणीपतिः ।
गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥ १८॥
इन्दुरुवाच ।
क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः ।
पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥ १९॥
आगमिष्यति सा कामं गृहं ते वरवर्णिनी ।
अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥ २०॥
इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा ।
दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥ २१॥
त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा ।
न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥ २२॥
इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः ।
जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः ॥ २३॥
दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः ।
ययावथ गृहं तस्य त्वरितश्चौषधीपतेः ॥ २४॥
स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः ।
नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥ २५॥
अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् ।
जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना ॥ २६॥
उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः ।
किं शेषे भवने मन्द पापाचार सुराधम ॥ २७॥
देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् ।
करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥ २८॥
सूत उवाच ।
क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः ।
श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः ॥ २९॥
तमुवाच हसन्सोमः किमिदं बहु भाषसे ।
न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता ॥ ३०॥