Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 1

५.२२ द्वाविंशोऽध्यायः ।

देवकृतदेव्याराधनवर्णनम् ।

व्यास उवाच ।

पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह ।

एवं वर्षसहस्रं तु जगाम नृपसत्तम ॥ १॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 2

भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् ।

गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 3

किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः ।

उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 4

उपचारपरा नूनं वेदमन्त्राः सहस्रशः ।

वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 5

इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः ।

ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 6

विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे ।

तं कुरुष्वाद्य विधिवद्यथा नो दुःखसङ्क्षयः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 7

भवेदाङ्गिरसाद्यैव तथा त्वं कर्तुमर्हसि ।

दानवानां विनाशाय अभिचारं यथामति ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 8

बृहस्पतिरुवाच ।

सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते ।

न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 9

मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् ।

जाताः स्म कालयोगेन किं करोमि प्रसाधनम् ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 10

इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु ।

ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 11

अवश्यम्भाविभावानां प्रतीकारो न विद्यते ।

उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 12

दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः ।

उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 13

दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् ।

केवलं दैवमाश्रित्य न स्थातव्यं कदाचन ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 14

उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः ।

तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 15

पुरा भगवती तुष्टा जघान महिषासुरम् ।

युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 16

आपदं नाशयिष्यामि संस्मृता वा सदैव हि ।

यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 17

प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा ।

स्मृताहं नाशयिष्यामि युष्माकं परमापदः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 18

तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे ।

आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 19

मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः ।

जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 20

दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः ।

तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 21

स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति ।

निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 22

सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति ।

व्यास उवाच ।

इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 23

हिमालयं महाराज देवीध्यानपरायणाः ।

मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 24

नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् ।

तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 25

नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते ।

नमो दानवान्तप्रदे मानवाना- मनेकार्थदे भक्तिगम्यस्वरूपे ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 26

न ते नामसङ्ख्यां न ते रूपमीदृ- क्तथा कोऽपि वेदादिदेवस्वरूपे ।

त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 27

स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि- र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती ।

सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 28

यदा यैः स्वरूपैः करोषीह कार्यं सुराणां च तेभ्यो नमामोऽद्य शान्त्यै ।

क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 29

कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः ।

दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 22: देवकृतदेव्याराधनवर्णनम्, Verse 30

किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव ।

यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ ३०॥