स्कन्ध 5, अध्याय 21: शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम्, Verse 1
५.२१ एकविंशोऽध्यायः ।
शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।
सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम् ॥ १॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२१ एकविंशोऽध्यायः ।
शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।
सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम् ॥ १॥
यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ ।
बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल ॥ २॥
बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ ॥ ३॥
हतावम्बिकया तौ तु सङ्ग्रामेऽतीव दारुणे ।
देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह ॥ ४॥
चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः ।
धूम्रलोचननामा च निहतास्ते रणाङ्गणे ॥ ५॥
तान्निहत्य सुराणां सा जहार भयमुत्तमम् ।
स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे ॥ ६॥
राजोवाच ।
कावेतावसुरावादौ कथं तौ बलिनां वरौ ।
केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ ॥ ७॥
तपसा वरदानेन कस्य जातौ महाबलौ ।
कथञ्च निहतौ सर्वं कथयस्व सविस्तरम् ॥ ८॥
व्यास उवाच ।
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम् ॥ ९॥
पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले ।
पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ ॥ १०॥
तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् ।
अन्नोदकं परित्यज्य पुष्करे लोकपावने ॥ ११॥
वर्षाणामयुतं यावद्योगविद्यापरायणौ ।
एकत्रैवासनं कृत्वा तेपाते परमं तपः ॥ १२॥
तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः ।
तत्रागतश्च भगवानारुह्य वरटापतिम् ॥ १३॥
तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ ।
उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल ॥ १४॥
वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह ।
कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम् ॥ १५॥
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ ।
प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा ॥ १६॥
दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती ।
ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा ॥ १७॥
देवदेव दयासिन्धो भक्तानामभयप्रद ।
अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो ॥ १८॥
मरणादपरं किञ्चिद्भयं नास्ति धरातले ।
तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ ॥ १९॥
त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे ।
परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम् ॥ २०॥
ब्रह्मोवाच ।
किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा ।
अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये ॥ २१॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
मर्यादा विहिता लोके पूर्वं विश्वकृता किल ॥ २२॥
मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः ।
अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम् ॥ २३॥
व्यास उवाच ।
तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ ।
ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम् ॥ २४॥
पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः ।
अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम् ॥ २५॥
नारी बलवती कास्ति या नौ नाशं करिष्यति ।
न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे ॥ २६॥
अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव ।
भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा ॥ २७॥
व्यास उवाच ।
इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् ।
ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम् ॥ २८॥
गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ ।
भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा ॥ २९॥
शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् ।
कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः ॥ ३०॥